ततो विलप्य बहुशो मधुना परिसांत्विता। जगाम शरणं देवमिंदुमौलित्रिलोचनं
भृंगानुयातां संगृह्य पुष्पितां सहकारजां। लतां पत्रद्रुमच्छन्नां जातां परभृतां सखीं 1.43.
निबध्य तु जटाजूटं कुटिलैरलकै रतिः। उद्वर्त्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना
जानुभ्यामवनिं गत्वा प्रोवाचेन्दुविभूषणम्। रतिरुवाच। नमः शिवायास्तु मनोमयाय जगन्मयायाद्भुतवर्त्मने नमः
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय। नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय
नमोस्तु मायामदनाश्रयाय नमो निसर्गामलभूषिताय। नमोस्त्वमेयाय गुणायनाय नमोस्तु सिद्धाय पुरातनाय
नमः शरण्याय नमो गुणाय नमोस्तु ते भीमगणानुगाय। नमोस्तु नानाभुवनर्द्धिकर्त्रे नमोस्तु भक्ताभिमतप्रदाय
नमोथ कर्मप्रसवे नमः सदा अनंतरूपाय सदैव तुभ्यम्। असह्यकोपाय सदैव तुभ्यं शशांकचिह्नाय नमोस्तु तुभ्यम्
असीमलीलापरमस्तुताय वृषेंद्रयानाय पुरांतकाय। नमः प्रसिद्धाय महौषधाय नमोस्तु नानाविधरूपकाय
नमोस्तु कालाय नमः कलाय नमोस्तु ते कालकलातिगाय। चराचराचार्यविचार्यवर्यमाचार्यमुत्प्रेक्षितभूतसर्गं
त्वामिंदुमौलिशरणं प्रपन्ना प्रियाप्तयेहं सहसा महेशं। प्रयच्छ मे कामयशः समृद्धिं पतिं विना तं भगवन्न जीवे
प्रियः प्रियायाः पुरुषेश नित्यस्ततो परः को भुवनेष्विहास्ति। प्रभुः प्रभावी प्रभवः प्रियाणां प्रवीणपर्याय परापरं तपः
त्वमेव नाथो भुवनस्य गोप्तां दयालुरुन्मूलितभक्तभीतिः। इत्थं स्तुतः शंकरइंद्रमौलिर्वृषाकपिर्मन्मथकांतया तु
तुतोष दोषाकरखंडधारी उवाच चैनां मधुरं निरीक्ष्य। शंकर उवाच। भविष्यति च कामोयं काले कांते चिरादथ
अनंग इति लोकेषु स विख्यातिं गमिष्यति। इत्युक्ता शिरसा वंद्य गिरीशं कामवल्लभा
जगामोपवनं चान्यद्रतिस्तुहिन पर्वते। रुरोद चापि बहुशो दीना रम्ये स्थले स्थले
मरणव्यवसायापि निवृत्ता च शिवाज्ञया। अथ नारदवाक्येन चोदितो हिमभूधरः
कृताभरणसंस्कारां कृतकौतुकमंगलां। स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकांबराम्
सखीभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः। जगाम सुभगे योगे तदा संपूर्णमानसः
सकाननान्युपाक्रम्य वनान्युपवनानि च। ददर्श रुदतीं नारीमप्रतर्क्यां महौजसम्
न रूपेणेदृशी लोके रम्येषु वनसानुषु। कौतुकेन परामृष्टस्तां दृष्ट्वा रुदतीं गिरिः
उपसृप्य ततस्तस्या निकटं सोप्यपृच्छत। हिमवानुवाच-। कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि
नैतदल्पमहं मन्ये कारणं लोकसुंदरि। सा तस्य वचनं श्रुत्वा उवाच मधुना सह
रुदंती शोकवचनं श्वसंती दैन्यवर्धनं। रतिरुवाच-। कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत
गिरावस्मिंश्च भगवान्गिरिशस्तपसि स्थितः। तेन प्रत्यूहरुष्टेन क्रोधाद्विस्फार्य लोचनं
विमुच्याग्निशिखाज्वालां कामो भस्मावशेषितः। अहं तु शरणं याता तं देवं भयविह्वला
स्तुतवत्यथ संतुष्टस्ततो मां गिरिशोऽब्रवीत्। तुष्टोहं कामदयिते कामोत्पत्तिर्भविष्यति
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः। लप्स्यते कांक्षितं कामं निवर्तमरणादपि
प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं। शरीरं परिरक्षिष्ये किंचित्कालं महाद्युते
इत्युक्तस्तु तया रत्या शैलः संभ्रमभीषणः। पाणावादाय तनयां गंतुमैच्छत्स्वकं पुरं