इंद्रियग्राममावृत्य रम्यसाधनसंविधिः। चिंतयित्वेति मदनो भूतभर्तुस्तदाश्रमम्
जगाम जगतीसारं सरलद्रुम वेदिकम्। शांतसत्वसमाकीर्णमचलं प्राणिसंकुलम्
नानापुष्पलताजालं सानुसंस्थगणेश्वरम्। निर्व्यग्रवृषभोद्घुष्टं नीलशाद्वलसानुकम्
तत्रापश्यत्त्रिनेत्रस्य रम्यंकं चिद्द्वितीयकम्। वीरकं वीरलोकेशमीशानसदृशद्युतिम्
पक्वं कुंकुमकिंजल्कपुंजपिंगजटासटम्। वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणम्
ततो निमीलितोन्निद्र पद्मपत्रांतलोचनम्। प्रेक्षमाणमृजुस्थानं नासावंशाग्रगोचरम्
अतीवरम्यसिंहेंद्र चर्मलंबोत्तरीयकम्। श्रवणाहिफणोन्मुक्त निश्वासानलपिंगलं
प्रेंखत्कपोलपर्यंत चुंबिलंबिजटाचयम्। कृतवासुकिपर्यंत नाभिमूलनिवेशितम्
ब्रह्मांजलिस्थनासाग्र निबद्धोरगभूषणम्। ददर्श शंकरं कामः क्रमप्राप्तांतिकः शनैः
ततो भ्रमरझंकारमालंब्य द्रुमसानुगम्। प्रविष्टः कर्णरंध्रेण भवस्य मदनो मनः
शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्। सस्मार दक्षतनयां दयितां रंतुमानसः
ततः शिवस्य शनकैस्तिरोधा याति निर्मला। समाधिभावना तस्थौ लक्ष्य प्रत्यक्षरूपिणी
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः। विवेश विबुधाधीशो विकृतिं मदनात्मिकाम्
ईषत्क्रोधसमाविष्टो धैर्यमालंब्य धूर्जटिः। निरस्यमदनंस्थित्वायोगमायासमावृतः
स तया माययाविष्टो जज्वाल मदनस्ततः। इच्छाशरीरो दुर्ज्ञेयो दोषावासो महाशयः
हृदयान्निर्गतः सोथ वासनाव्यसनात्मकः। बहिस्थलं समासाद्य उपतस्थे झषध्वजः
अनुयातो हि साह्येन मित्रेण मधुना सह। सहकारतरोर्दृष्ट्वा मंदमारुतनिर्धुतं
स्तबकं मदनो रम्यं हरवक्षसि सत्वरं। मुमोच मोहनं नाम मार्गणं मकरध्वजः
स तस्य हृदये शुद्धे नामशाली महाशरः। पपात परुषः प्रांशुः पुष्पबाणो विमोहनः
ततः करणसंदोहे विद्धे तु हृदये भवः। बभूव भूतपो कंप्य धैर्योपि मदनोन्मुखः
ततः प्रभुत्वाद्भावानामावेशं स्वमपश्यत। वाक्यं बहु बभाषेथ प्रत्यूहप्रसवात्मकं
ततः कोपानलोद्भूत घोर हुंकारभीषणे। बभूव वदने नेत्रं तृतीयमनलाकुलं
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्। तदंतिकस्थे मदने व्यस्फारयत धूर्जटिः
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्। गमितो भस्मतां तूर्णं कंदर्पः कामदर्पकः
स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोनलः। व्यजृंभत जगद्दग्धुं ज्ञात्वा हुंकारघस्मरं
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्। सहकारे मधौ चन्द्रे सुमनः स्स्वपरेष्वपि
भृंगेषु कोकिलास्ये च विभागेन स्मरानलं। स बाह्याभ्यंतरे विद्धो हरोथ स्मरमार्गणैः
भागेष्वेतेषु संविष्टं वीक्षती बहुनाशनं। विभक्तं लोकसंक्षोभकरं दुर्वारजृंभितं
तत्प्राप्तिस्नेहसंपूर्णकामेन हृदये किल। ज्वलन्नहर्निशं भीमो दुःखस्य वशगोऽभवत्
विलोक्य हरहुंकार ज्वालाभस्मीकृतं स्मरं। विललाप रतिः क्रूरं बंधुना मधुना सह