विशेषं कांक्षतां शक्र सामान्याद्भ्रंशनं फलात्। श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः
शक्र उवाच-। वयं प्रमाणं ते तत्र रतिकांत न संशयः। संदंशेन विना शक्तिरयस्कारस्य नेष्यते
कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः। इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः
रतियुक्तो जगामाशु प्रस्थं तुहिनभूभृतः। स तु प्राप्याकरोच्चिंतां कार्यस्योपायपूर्विकाम्
महात्मानो हि निष्कंपा मनस्तेषां सुदुर्जयम्। तदादावेव संक्षोभ्य नेत्थं तस्य जयो भवेत्
संसिद्धिः प्रायशश्चैव पूर्वं संशोध्य मानसम्। कथमेवंविधैर्भावैर्द्वेषानुगमनं विना
क्रोधः क्रूरतरात्संगाद्भीषणेर्ष्या महासखी। चापल्यान्मूर्ध्नि विध्वस्त धैर्याधारमहाबला
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः। पिधाय धैर्यद्वाराणि संतोषमपकृष्य च
अवगंतुं हि मां तत्र न कश्चिदिह पंडितः। विकल्पमात्रसंस्थानं विरूपाक्षमनोभवम्
प्रविश्याथ क्रियारंभी गंभीरावर्तदुस्तरः। भविष्यामि हरस्याहं तपःस्थस्य स्थिरात्मनः
इंद्रियग्राममावृत्य रम्यसाधनसंविधिः। चिंतयित्वेति मदनो भूतभर्तुस्तदाश्रमम्
जगाम जगतीसारं सरलद्रुम वेदिकम्। शांतसत्वसमाकीर्णमचलं प्राणिसंकुलम्
नानापुष्पलताजालं सानुसंस्थगणेश्वरम्। निर्व्यग्रवृषभोद्घुष्टं नीलशाद्वलसानुकम्
तत्रापश्यत्त्रिनेत्रस्य रम्यंकं चिद्द्वितीयकम्। वीरकं वीरलोकेशमीशानसदृशद्युतिम्
पक्वं कुंकुमकिंजल्कपुंजपिंगजटासटम्। वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणम्
ततो निमीलितोन्निद्र पद्मपत्रांतलोचनम्। प्रेक्षमाणमृजुस्थानं नासावंशाग्रगोचरम्
अतीवरम्यसिंहेंद्र चर्मलंबोत्तरीयकम्। श्रवणाहिफणोन्मुक्त निश्वासानलपिंगलं
प्रेंखत्कपोलपर्यंत चुंबिलंबिजटाचयम्। कृतवासुकिपर्यंत नाभिमूलनिवेशितम्
ब्रह्मांजलिस्थनासाग्र निबद्धोरगभूषणम्। ददर्श शंकरं कामः क्रमप्राप्तांतिकः शनैः
ततो भ्रमरझंकारमालंब्य द्रुमसानुगम्। प्रविष्टः कर्णरंध्रेण भवस्य मदनो मनः
शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्। सस्मार दक्षतनयां दयितां रंतुमानसः
ततः शिवस्य शनकैस्तिरोधा याति निर्मला। समाधिभावना तस्थौ लक्ष्य प्रत्यक्षरूपिणी
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः। विवेश विबुधाधीशो विकृतिं मदनात्मिकाम्
ईषत्क्रोधसमाविष्टो धैर्यमालंब्य धूर्जटिः। निरस्यमदनंस्थित्वायोगमायासमावृतः
स तया माययाविष्टो जज्वाल मदनस्ततः। इच्छाशरीरो दुर्ज्ञेयो दोषावासो महाशयः
हृदयान्निर्गतः सोथ वासनाव्यसनात्मकः। बहिस्थलं समासाद्य उपतस्थे झषध्वजः
अनुयातो हि साह्येन मित्रेण मधुना सह। सहकारतरोर्दृष्ट्वा मंदमारुतनिर्धुतं
स्तबकं मदनो रम्यं हरवक्षसि सत्वरं। मुमोच मोहनं नाम मार्गणं मकरध्वजः
स तस्य हृदये शुद्धे नामशाली महाशरः। पपात परुषः प्रांशुः पुष्पबाणो विमोहनः
ततः करणसंदोहे विद्धे तु हृदये भवः। बभूव भूतपो कंप्य धैर्योपि मदनोन्मुखः