अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा । कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत्
अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् । आगच्छता गणाः सर्वे यातास्तेऽपि मया सह
एतेपि यादवाः सर्वे मद्गणा एव भामिनि । पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम्
यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे । कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी
मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता । तस्मादयं कल्पवृक्षस्तवांगणतः शुभे
कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा । त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत्
यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे । निवेदितवती तस्मान्मम भार्यात्वमागता
आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम् । कदाचिदपि तेनैव मद्वियोगं न पश्यसि
एवं ये कार्त्तिके मासि नरा व्रतपरायणाः । मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम
यज्ञदानव्रततपः कारिणो मानवाः खलु । कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि
इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा । विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः
सत्योवाच- सर्वेऽपि कालावयवास्तवकालस्वरूपिणः । समानास्तु कथं नाथ मासानां कार्तिको वरः
एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः । कथं ते देवदेवेश कारणं किं च कथ्यताम्
श्रीकृष्ण उवाच- साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा । पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च
एवमेव पुरा पृष्टो नारदः पृथुना प्रिये । उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः
नारद उवाच- शंखनामाभवत्पूर्वमसुरः सागरात्मजः । त्रिलोकीमथने शक्तो महाबलपराक्रमः
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः । इंद्रादिलोकपालानामधिकारांस्तथाहरत्
तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः । न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः
सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा । तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत्
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः । भवंति बलयुक्तास्ते करणीयं ममात्र किम्
अद्य ज्ञातं मया देवा वेदमंत्रबलान्विताः । तान्हरिष्ये ततः सर्वे बलहीना भवंति हि
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् । सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् । तोये निविविशुस्तेऽत्र यज्ञमंत्रसमन्विताः
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् । न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान्
अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात् । पूजोपकरणं गृह्य वैकुंठभवनं गतः
तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः । चक्रुर्देवा गंधपुष्पधूपदीपान्मुहुर्मुहुः
अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः । ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः
उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा । दंडवत्पतिता भूमौ तानुवाचाथ केशवः
विष्णुरुवाच- वरदोऽहं सुरगणा गीतवाद्यादि मंगलैः । मनोऽभिलषितान्कामान्सर्वानेव ददामि वः