यदुक्तं च मया देवी लक्षणैर्वर्जिता तव। शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्
लक्षणं दैविको ह्यंकः शरीरावयवाश्रयः। स चायुर्धनसौभाग्यपरिणामप्रकाशकः
अनंतस्याप्रमेयस्य सौभाग्यस्य तु भूधर। नैवांको लक्षणाकारः शरीरे संविधीयते
अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते। यच्चाहमुक्तवानस्या उत्तानकरता सदा
उत्तानो वरदः पाणिरेष देव्याः सदैव तु। सुरासुरमुनिव्रातवरदात्री भविष्यति
यच्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ। मत्तः शृणु त्वमस्यापि व्याख्योक्तिं शैलसत्तम
चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्वलौ। सुरासुराणां नमतां किरीटमणिकांतिभिः
विचित्रवर्णैः पश्यद्भिः सुच्छायौ प्रतिबिंबितौ। एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर
जननी सर्वलोकस्य संभूताभूतभाविनी। शिवेयं पावनायैव त्वत्क्षेत्रे पावनद्युतिः
तद्यथाशीघ्रमेवैषा योगं यायात्पिनाकिनः। तथा विधेयं विधिवत्त्वया शैलेंद्रसत्तम
अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर। एवं श्रुत्वा तु शैलेंद्रो नारदात्सर्वमेव हि
स्वमात्मानं पुनर्जातं मेने मेनापतिस्तदा। उवाच चापि संहृष्टो नारदं तु हिमाचलः
दुस्तरान्नरकाद्घोरादुद्धृतोस्मि त्वया विभो। पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः
हिमाचलोस्मि विख्यातस्त्वया मुनिवराधुना। हिमाचलाच्छतगुणां प्रापितोस्मि समुन्नतिं
आनंदादेव चाहारि हृदयं मे महामुने। नाध्यवस्यति कृत्यानां विभागप्रविचारणम्
भवद्विधानां नियतममोघं दर्शनं मुने। भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणाम्
मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषम्। तथापि वस्तुन्येकस्मिन्नाज्ञा मे संप्रदीयताम्
इत्युक्तवति शैलेंद्रे स तदा हर्षनिर्भरः। उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो
सुरकार्ये स एवार्थस्तवापि सुमहत्तरः। इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं ततः
स गत्वा देवभवनं महेंद्रं संददर्श ह। ततोनुरूपे स मुनिरुपविष्टो महासने
पृष्टः शक्रेण प्रोवाच गिरिजासंश्रयां कथाम्। नारद उवाच-। यन्मह्यमुक्तं कर्तव्यं तन्मया कृतमेव हि
किंतु पंचशरस्येषु गोचरत्वमपेक्षितम्। इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना1.43.
चूतांकुरास्त्रं सस्मार भगवान्पाकशासनः। सस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता
उपतस्थे रतियुतः सविलासो झषध्वजः। प्रादुर्भूतं च तं दृष्ट्वा शक्रः प्रोवाच मन्मथम्
शक्र उवाच-। उपदेशेन बहुना किं त्वां प्रति रतिप्रिय। मनोभवोसि तेन त्वं वेत्सि भूतमनोगतम्
तद्यथानुक्रमं तु त्वं कुरु नाकसदां प्रियम्। शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव
संयुक्तो मधुनानेन गच्छ रत्या सहायवान्। इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये
प्रोवाच पंचबाणोथ वाक्यं भीतः शतक्रतुम्। काम उवाच-। अनया देव सामग्र्या मुनिदानवभीमया
दुःसाध्यश्शंकरो देवः किं न वेत्सि जगत्प्रभो। तस्य देवस्य वेत्थ त्वं कारणं पदमव्ययम्
प्रायः प्रसादे कोपेपि सर्वं हि महतां महत्। सर्वोपभोगसारं हि सौदर्यं स्वर्गसंभवम्