शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः। इत्युक्त्वा विरते शैले महादुःखविचारिणि
स्मितपूर्वमुवाचेदं नारदो देवपूजितः। नारद उवाच-। हर्षस्थाने च महति त्वया दुःखं निरुच्यते
अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे। इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम्
समाहितो महाशैल मयोक्तस्य विचारणाम्। न जातोस्याः पतिर्देव्या यन्मयोक्तं हिमाचल
स न जातो महादेवो भूतभव्यभवोद्भवः। शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः
ब्रह्मरुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः। तस्य ते परमेशस्य सर्वे क्रीडनका गिरे
ब्रह्मांडतस्तदिच्छातः संभूतो भुवनप्रभुः। आत्मनो न विनाशोस्ति स्थावरांतेपि भूधर
संसारे जायमानस्य म्रियमाणस्य देहिनः। नश्यते देह एवात्र नात्मनो नाश उच्यते
ब्रह्मादिस्थावरांतोऽयं संसारो यः प्रकीर्तितः। स जन्ममृत्युदुःखार्तो ह्यनिशं परिवर्तते
महादेवोऽचलःस्थाणुर्न जातो जनकोऽजरः। भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव। शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्
लक्षणं दैविको ह्यंकः शरीरावयवाश्रयः। स चायुर्धनसौभाग्यपरिणामप्रकाशकः
अनंतस्याप्रमेयस्य सौभाग्यस्य तु भूधर। नैवांको लक्षणाकारः शरीरे संविधीयते
अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते। यच्चाहमुक्तवानस्या उत्तानकरता सदा
उत्तानो वरदः पाणिरेष देव्याः सदैव तु। सुरासुरमुनिव्रातवरदात्री भविष्यति
यच्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ। मत्तः शृणु त्वमस्यापि व्याख्योक्तिं शैलसत्तम
चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्वलौ। सुरासुराणां नमतां किरीटमणिकांतिभिः
विचित्रवर्णैः पश्यद्भिः सुच्छायौ प्रतिबिंबितौ। एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर
जननी सर्वलोकस्य संभूताभूतभाविनी। शिवेयं पावनायैव त्वत्क्षेत्रे पावनद्युतिः
तद्यथाशीघ्रमेवैषा योगं यायात्पिनाकिनः। तथा विधेयं विधिवत्त्वया शैलेंद्रसत्तम
अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर। एवं श्रुत्वा तु शैलेंद्रो नारदात्सर्वमेव हि
स्वमात्मानं पुनर्जातं मेने मेनापतिस्तदा। उवाच चापि संहृष्टो नारदं तु हिमाचलः
दुस्तरान्नरकाद्घोरादुद्धृतोस्मि त्वया विभो। पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः
हिमाचलोस्मि विख्यातस्त्वया मुनिवराधुना। हिमाचलाच्छतगुणां प्रापितोस्मि समुन्नतिं
आनंदादेव चाहारि हृदयं मे महामुने। नाध्यवस्यति कृत्यानां विभागप्रविचारणम्
भवद्विधानां नियतममोघं दर्शनं मुने। भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणाम्
मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषम्। तथापि वस्तुन्येकस्मिन्नाज्ञा मे संप्रदीयताम्
इत्युक्तवति शैलेंद्रे स तदा हर्षनिर्भरः। उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो
सुरकार्ये स एवार्थस्तवापि सुमहत्तरः। इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं ततः
स गत्वा देवभवनं महेंद्रं संददर्श ह। ततोनुरूपे स मुनिरुपविष्टो महासने