ज्ञात्वा तदिंगितं शैलो महिष्याहृदयेन तु। अनुदीर्णाकृतिर्मेने रम्यमेतदुपस्थितम्
चोदितः शैलमहिषी सख्या मुनिवरस्ततः। स्मिताननो महाभागो वाक्यं प्रोवाच नारदः
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः। उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः
सुच्छायास्या भविष्येयं किमन्यद्बहु भाष्यते। श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो हिमाचलः
नारदं प्रत्युवाचाथ साश्रुकंठो महागिरिः। हिमवानुवाच-। संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः
सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना। कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्
यो जायते हि यद्बीजाज्जनितुः सोर्थसाधकः। जनिता चापि जातस्य न कश्चिदिति च स्फुटम्
स्वकर्मणैव जायंते विवधा भूतजातयः। अंडजोह्यंडजाज्जातः पुनर्जायेत मानवः
मानुषोपि सरीसृप्यां मानुषत्वेन जायते। तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु
अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः। मनुजास्तत्र सुतरां नयेन सहधर्मिणः
क्रमेणाश्रमसंप्राप्तिर्ब्रह्मचारिव्रतादनु। तस्य कर्तुर्नियोगेन संसारो येन वर्धितः
संसारस्य हि नोत्पत्तिः सर्वे स्युर्यदि निर्गृहाः। कर्त्रा तु शास्त्रेषु सदा सुतलाभः प्रशंसितः1.43.
प्राणिनां मोहनार्थाय नरकत्राणकारणात्। स्त्रिया विरहिता सृष्टिर्जंतूनां नोपपद्यते
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी। शास्त्रालोचनसामर्थ्याद्दूषितं तासु कर्तृणा
तस्यां नोपरिभावज्ञा भवेदेति च वेधसा। शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलं
दशपुत्रसमा कन्या यापि स्याच्छीलवर्जिता। वाक्यमेतत्फलभ्रष्टं पुंसां ग्लानिकरं फलं
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्द्धिनी। यापि स्यात्पूर्णसर्वार्था पतिपुत्रसमन्विता
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः। त्वं चोक्तवान्सुता या मे शरीरे दोषसंग्रहम्
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद। अयुक्तमपि वक्तव्यमप्राप्यमपि सांप्रतम्
अनुग्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने। परिच्छिन्नेप्यसंदिग्धे मनः परिभवाश्रयात्
तृष्णा मुष्णाति निष्णातं फललोभाश्रयात्पुनः। स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम्
इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम्। दुर्लभत्वात्सतः स्त्रीणां विगुणोपि पतिः किल
न प्राप्यते विना पुण्यैः पतिर्नार्याः कदाचन। यतो निस्साधनो धर्मः परिणामोत्थिता रतिः
धनं जीवितपर्यंतं पत्यौ नार्याः प्रतिष्ठितम्। निर्द्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः
दैवतं परमं नार्याः पतिरुक्तः सदैव हि। त्वया देवर्षिणा प्रोक्तं न जातोऽस्याः पतिः किल
एतद्दौर्भाग्यमतुलमसंख्यं च दुरुद्वहम्। चराचरे भूतसर्गे चिंता सा व्यापिनी मुने
स न जात इति श्रुत्वा ममेदं व्याकुलं मनः। मनुष्यदेवजातीनां शुभाशुभनिवेदकम्
लक्षणं हस्तपादाभ्यां लक्षणं विहितं किल। सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुंगव
उत्तानहस्तता प्रोक्ता याचतामेव नित्यका। शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम्
सुच्छाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ। तत्रापि श्रेयसी ह्याशा मुने न प्रतिभाति नः