ववंदे गूढवदना पाणिपद्मकृताञ्जलि। तां विलोक्य महाभागां देवर्षिरमितद्युतिः
आशीर्भिरमृतोद्गाररूपाभिस्तां व्यवर्द्धयत्। ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका
एक्षिष्ट नारदं देवी मुनिमद्भुतरूपिणम्। एहि वत्सेति साप्युक्ता ॠषिणा स्निग्धया गिरा
कंठे गृहीत्वा पितरमङ्के सा तु समाविशत्। उवाच माता तां देवीमभिवंदय पुत्रिके
भगवंतं तपोधन्यं पतिमाप्स्यसि संमतम्। इत्युक्ता तु ततो मात्रा वस्त्रेण पिहितानना
किंचित्कंपितमूर्द्धा तु वाक्यं नोवाच किंचन। ततः पुनरुवाचेदं वाक्यं माता सुतां तदा
वत्से वंदय देवर्षिं ततो दास्यामि ते शुभम्। रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया
इत्युक्ता सा ततो वेगादुद्गत्य चरणौ तदा। ववंदे मूर्ध्नि संधाय पाणिपंकजकुड्मलम्
कृते तु वंदने तस्या माता सखिमुखेन तु। चोदयामास शनकैस्तस्याः सौभाग्यदर्शिताम्
शरीरलक्षणानां च परिज्ञानाय कौतुकात्। स्त्रीस्वभावात्स्वदुहितुश्चिंतां हृदि समुद्वहन्
ज्ञात्वा तदिंगितं शैलो महिष्याहृदयेन तु। अनुदीर्णाकृतिर्मेने रम्यमेतदुपस्थितम्
चोदितः शैलमहिषी सख्या मुनिवरस्ततः। स्मिताननो महाभागो वाक्यं प्रोवाच नारदः
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः। उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः
सुच्छायास्या भविष्येयं किमन्यद्बहु भाष्यते। श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो हिमाचलः
नारदं प्रत्युवाचाथ साश्रुकंठो महागिरिः। हिमवानुवाच-। संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः
सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना। कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्
यो जायते हि यद्बीजाज्जनितुः सोर्थसाधकः। जनिता चापि जातस्य न कश्चिदिति च स्फुटम्
स्वकर्मणैव जायंते विवधा भूतजातयः। अंडजोह्यंडजाज्जातः पुनर्जायेत मानवः
मानुषोपि सरीसृप्यां मानुषत्वेन जायते। तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु
अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः। मनुजास्तत्र सुतरां नयेन सहधर्मिणः
क्रमेणाश्रमसंप्राप्तिर्ब्रह्मचारिव्रतादनु। तस्य कर्तुर्नियोगेन संसारो येन वर्धितः
संसारस्य हि नोत्पत्तिः सर्वे स्युर्यदि निर्गृहाः। कर्त्रा तु शास्त्रेषु सदा सुतलाभः प्रशंसितः1.43.
प्राणिनां मोहनार्थाय नरकत्राणकारणात्। स्त्रिया विरहिता सृष्टिर्जंतूनां नोपपद्यते
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी। शास्त्रालोचनसामर्थ्याद्दूषितं तासु कर्तृणा
तस्यां नोपरिभावज्ञा भवेदेति च वेधसा। शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलं
दशपुत्रसमा कन्या यापि स्याच्छीलवर्जिता। वाक्यमेतत्फलभ्रष्टं पुंसां ग्लानिकरं फलं
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्द्धिनी। यापि स्यात्पूर्णसर्वार्था पतिपुत्रसमन्विता
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः। त्वं चोक्तवान्सुता या मे शरीरे दोषसंग्रहम्
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद। अयुक्तमपि वक्तव्यमप्राप्यमपि सांप्रतम्
अनुग्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने। परिच्छिन्नेप्यसंदिग्धे मनः परिभवाश्रयात्