प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूत्। अंतरिक्षेऽमराश्चासन्विमानेषु सहस्रशः
समहेंद्रजलाधीश वायु वह्नि पुरोगमाः। पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तुहिन भूधरे1.43.
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः। मेरुप्रभृतयश्चापि मूर्तिमंतो महाचलाः
तस्मिन्महोत्सवे प्राप्ते दिव्याः प्रसृतपाणयः। सागरास्सरितश्चैव समाजग्मुश्च सर्वशः
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः। संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः
अनुभूयोत्सवं देवा जग्मुः स्वान्निलयास्तदा। देवनागेंद्रगंधर्वशैललीलावती गणैः
हिमशैलसुता देवी त्वहंपूर्विकया ततः। क्रमेण बुद्धिमानीता विद्याञ्चानलसैर्बुधैः
क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रये। संपूर्णलक्षणा जाता हिमालयसुता तथा
एतस्मिन्नंतरे शक्रो नारदं देवसंमतम्। देवर्षिमथ सस्मार कार्यसाधनतत्परः
स तु शक्रस्य विज्ञाय कांक्षितं भगवांस्तदा। आजगाम मुदा युक्तो महेंद्रस्य निवेशनम्
तं तु दृष्ट्वा सहस्राक्षः समुत्थाय महासनात्। यथार्हेण तु पाद्येन पूजयामास वासवः
शक्रप्रणिहितां पूजां प्रतिगृह्य यथाविधि। नारदः कुशलं देवमपृच्छत्पाकशासनम्
पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः। इंद्र उवाच-। कुशलस्यांकुरस्तावत्संवृत्तो भुवनत्रये
तत्फलोद्भवसंपत्तौ त्वं मया विदितो मुने। वेत्स्येव तत्समस्तं त्वं तथापि परिचोदितः
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने। तद्यथाशैलजा देवी योगं यायात्पिनाकिना
शीघ्रं तथोद्यमः सर्वैरस्मत्पक्षैर्विधीयताम्। अवगम्यार्थमखिलं तत आमंत्र्य नारदः
शीघ्रं जगाम भगवान्हिमशैलनिकेतनम्। तत्र द्वारे स विप्रेंद्रश्चित्रवेत्रलताकुले
वंदितो हिमशैलेन निर्गतेन पुरो मुनिः। सह प्रविश्य भवनं भुवो भूषणतां गतम्
निवेदिते स्वयं हैमे हिमशैलेन विस्तृते। महासने मुनिवरो निषसादातुलद्युतिः
यथार्हमर्घ्यं पाद्यं च शैलस्तस्मै न्यवेदयेत्। मुनिः स प्रतिजग्राह तमर्घ्यं विधिवत्तदा
गृहीतार्घम्मुनिश्रेष्ठमपृच्छत्श्लक्ष्णया गिरा। कुशलं तपसः शैलः शनैः फुल्लाननांबुजः
मुनिरप्यद्रिराजानमपृच्छत्कुशलं तदा। नारद उवाच-। अहो धर्मोचितस्तेऽस्ति संनिवेशो महागिरे
पृथुत्वं मनसा तुल्यं कंदराणां तवानघ। गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते
प्रसन्नता च तोयस्य मुनिभ्यश्चाधिका तव। न लक्षयामः शैलेन्द्र कुत्राविनयिता स्थिता
नाना तपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः। पावनैः पावितो नित्यं त्वं कंदरसमाश्रयैः
अवमत्य विमानानि स्वर्गवासविरागिणः। पितुर्गृहइवासीना देवगंधर्वकिन्नराः
अहो धन्योसि शैलेन्द्र यस्य ते कंदरं हरः। अध्यास्ते लोकनाथो हि रामध्यानपरायणः
इत्युक्तवति देवर्षौ नारदे सादरं गिरा। हिमशैलस्य महिषी मेना मुनिदिदृक्षया
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका। लज्जाप्रणयनम्राङ्गी प्रविवेश निकेतनम्
यत्र स्थितो मुनिवरः शैलेन सहितो वशी। तं दृष्ट्वा तेजसो राशिं मुनिं शैलप्रिया तदा