एतद्व्रतद्वयं कांते ममातीव प्रियंकरम् । भुक्तिमुक्तिकरं सम्यक्पुत्रसंपत्तिकारकम्
कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे । प्रातः स्नास्यंति ते मुक्ता महापातकिनोऽपि च
संमार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम् । विष्णुपूजां प्रकुर्वंति जीवन्मुक्ताश्च ते नराः
स्नानं जागरणं दीपं तुलसीवनसेवनम् । कार्त्तिके ये प्रकुर्वंति ते नरा विष्णुमूर्त्तयः
इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते । देवानामपि ते वंद्याः किं यैराजन्मतः कृतम्
इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते । नित्यं विष्णोः परिकरे भक्ता तत्परमानसा
कदाचिज्जरसा साथ कृशांगी ज्वरपीडिता । स्नातुं गंगां गता कांते कथंचिच्छनकैस्तथा
यावज्जलांतरगता कंपिता शीतपीडिता । तावत्सा विह्वला पश्यद्विमानं प्राप्तमंबरात्
शंखचक्रगदापद्महस्तैरासन्नमंबरात् । विष्णुरूपधरैः सम्यग्वैनतेयध्वजांकितैः
आरोहयन्विमानं तमप्सरोगणसेवितम् । चामरैर्वीज्यमानां तां वैकुंठमनयन्गणाः
अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा । कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत्
अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् । आगच्छता गणाः सर्वे यातास्तेऽपि मया सह
एतेपि यादवाः सर्वे मद्गणा एव भामिनि । पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम्
यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे । कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी
मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता । तस्मादयं कल्पवृक्षस्तवांगणतः शुभे
कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा । त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत्
यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे । निवेदितवती तस्मान्मम भार्यात्वमागता
आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम् । कदाचिदपि तेनैव मद्वियोगं न पश्यसि
एवं ये कार्त्तिके मासि नरा व्रतपरायणाः । मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम
यज्ञदानव्रततपः कारिणो मानवाः खलु । कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि
इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा । विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः
सत्योवाच- सर्वेऽपि कालावयवास्तवकालस्वरूपिणः । समानास्तु कथं नाथ मासानां कार्तिको वरः
एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः । कथं ते देवदेवेश कारणं किं च कथ्यताम्
श्रीकृष्ण उवाच- साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा । पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च
एवमेव पुरा पृष्टो नारदः पृथुना प्रिये । उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः
नारद उवाच- शंखनामाभवत्पूर्वमसुरः सागरात्मजः । त्रिलोकीमथने शक्तो महाबलपराक्रमः
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः । इंद्रादिलोकपालानामधिकारांस्तथाहरत्
तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः । न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः
सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा । तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत्