तत्संगमेन तावत्त्वं दैत्यान्हंतुं न शक्यसे। एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति
समाप्तनियमा देवि यदा चोमा भविष्यति। तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते
तदा त्वयापि सहिता भवानी सा भविष्यति। रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति। भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः। आक्रांतैरूर्जिताकारा राजभिश्च महाभुजैः
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता। क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि
त्वं महोपायसंदेहो नीतिर्नयविसर्पिणाम्। परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्। रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्
त्वं कीर्तिः सत्यभूतानां त्वं शांतिर्दुष्टकर्मणाम्। त्वं भ्रांतिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्
जलधीनां महावेला त्वं च लीलाविलासिनी। प्रियकंठग्रहानंददायिनी त्वं विभावरी
इत्यनेकविधैर्देवी रूपैर्लोके त्वमर्चिता। ये त्वां स्तोष्यंति वरदे पूजयिष्यंति चापि ये
ते सर्वकामानाप्स्यंति नियता नात्र संशयः। इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलि
जगाम त्वरिता तूर्णं गृहं हिमगिरेर्महत्। तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्
ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्। किंचित्क्षामां मुखोदग्रस्तनभारावनामिताम्
महौषधिगणाबद्ध मंत्रराजनिषेविताम्। उदूढकनकोन्नद्ध जीवरक्षा मनोरमाम्
मणिदीपगणज्योतिर्महालोकप्रकाशिते। प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके
शुद्धचीनांशुकच्छत्र भूशय्यास्तरणोज्ज्वले। धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके
ततः क्रमेण दिवसे गते दूरं विभावरी। विजृंभितसुखोदर्के ततो मेना महागृहे
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके। स्फुटालोके शशभृति भ्रान्तरात्रिविहंगमे
रजनीचर संचारभूतैरावृत चत्वरे। गाढकंठग्रहालग्ने शुभगोष्टजने ततः
किंचिदाकुलतां प्राप्ते मेना नेत्रांबुजद्वये। आविवेश मुखे रात्रिः सुखमद्भुतसंगमा
उन्मादाय जगन्मातुः क्रमेण जठरांतरे। आविवेशातुलं जन्म मन्यमाना कदा तु वै
अरंजयद्गृहं देव्या गुहारण्ये विभावरी। ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया
ब्राह्मे मुहूर्ते सुभगे प्रासूयत गुहारणिं। तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः। नारकाणामपि तदा सुखं स्वर्गसमं महत्
अभवत्क्रूरसत्वानां चेतः शांतं च देहिनाम्। ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा
वनाश्रिताश्चोषधयः स्वादवंति फलानि च। गंधवंति च माल्यानि विमलं च नभोऽभवत्
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः। ॠतूद्भूतफलायोग परिपाकगुणोज्ज्वला
अभवत्पृथिवी देवी शालिमालाकुलापि च। तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्। विस्मृतानि च शास्त्राणि प्रादुर्भावं प्रपेदिरे