हिमाचलस्य दुहिता या च देवी भविष्यति। तस्याः सकाशाद्यः सूनुररण्याः पावको यथा
जनयिष्यति तं प्राप्य तारको न भविष्यति। मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.
शेषं चाप्यस्य विभवं विभजध्वमनंतरं। स्तोककालं प्रतीक्षध्वं निर्विशंकेन चेतसा
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना। जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः। निशां सस्मार भगवांस्तां देवीं पूर्वसंभवां
ततो भगवती रात्रिरुपतस्थे पितामहं। तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्
ब्रह्मोवाच-। विभावरि महत्कार्यं देवानां समुपस्थितं। तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः। तस्या भवाय भगवान्जनयिष्यति चेश्वरः
सुतं स भविता तस्य तारकस्यांतकः किल। शंकरस्याभवत्पत्नी सती दक्षसुता तु या
सा पितुः कुपिता देवी कस्मिंश्चित्कारणांतरे। भवित्री हिमशैलस्य दुहिता लोकभाविनी
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं। स तस्य हिमशैलस्य कंदरे सिद्धसेविते
प्रतीक्षमाणस्तज्जन्म किंचित्कालं निवत्स्यति। तयोः सुतप्ततपसोर्भविता यो महान्सुतः
भविष्यति स दैत्यस्य तारकस्य विनाशकः। जातमात्रा च सा देवी स्वल्पसंज्ञेव भामिनी
विरहोत्कंठिता गाढं हरसंगमलालसा। तयोः सुतप्ततपसोः संयोगः स्याच्छुभावहः
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्। ततस्तु संशयो भूयस्तारकस्य च दृश्यते
तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे। विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु
गर्भस्थमेवतन्मातुः स्वेन रूपेण संज्ञया। ततो विहस्य शर्वस्तां विषण्णो नर्मपूर्वकं
भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती। प्रयास्यति तपश्चर्तुं ततः सा तपसा युता
जनयिष्यति तं शर्वादमितद्युतिमंडलं। संभविष्यति हंतासौ सुरारीणामसंशयम्
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः। यावत्सुरेश्वरी देहसंक्रांतगुणसंचया
तत्संगमेन तावत्त्वं दैत्यान्हंतुं न शक्यसे। एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति
समाप्तनियमा देवि यदा चोमा भविष्यति। तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते
तदा त्वयापि सहिता भवानी सा भविष्यति। रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति। भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः। आक्रांतैरूर्जिताकारा राजभिश्च महाभुजैः
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता। क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि
त्वं महोपायसंदेहो नीतिर्नयविसर्पिणाम्। परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्। रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्
त्वं कीर्तिः सत्यभूतानां त्वं शांतिर्दुष्टकर्मणाम्। त्वं भ्रांतिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्
जलधीनां महावेला त्वं च लीलाविलासिनी। प्रियकंठग्रहानंददायिनी त्वं विभावरी