प्राह देवं चतुर्वक्त्रं भवान्वेत्ति चराचरं। पुरहूतमुखाः सबला निमिषा विजिताः प्रसभं किल दैत्यशतैः
क्रतवो विहिता भवता स्थितये जगतां च महाद्भुतचित्रगुणाः। अपि यज्ञकृतः श्रुतकामफला विहिता ॠषयस्तत एव पुरः
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्। अपहृत्यविमानगणं सकृतो दनुजेन महाकरभूमिसमः
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया। मखभूषितमंशुमतामवधिं सुरधामगिरिं गगनेपि सदा
अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृंगतटः। प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः
असुरस्य च तस्य भयेन गतं सविषाद शरीरनिमित्ततया। उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरितदिग्वदनं
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहवरं कुलिशं। दितिजस्य शरीरमवाप्यगतं शतधा मतिभेदमिवाल्पविदः
बाणैश्च युधि विद्धांगा द्वारि द्वास्थैर्निदर्शिताः। लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः
सभायाममरादेव प्रकृष्योपनिवेशिताः। वेत्रहस्तैरजल्पंतस्तथोपहसिताः परैः
महार्थाः सिद्धसर्वार्था भवंतः स्वल्पभाषिणः। शास्त्रयुक्तमथ ब्रूत मामरा बहुभाषिणः
सभेयं दैत्यसिंहस्य न शक्रस्य विशृंखला। वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिता बहु
ॠतवो मूर्तिमंतश्चाप्यहर्निशमुपासते। कृतापराधं सत्रासं न त्यजंति कथंचन
तंत्रीलयनयोपेतं सिद्धगंधर्वकिन्नरैः। सरागमुपधाविष्टं गीयते तस्य वेश्मसु
कृताकृतोपकरणैर्मित्रादि गुरुलाघवः। शरणागतसंत्यागी त्यक्तसत्यप्रतिश्रयः
इति निश्शेषमथवा निश्शेषं केन शक्यते। तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्
इत्युक्त्वा व्यरमद्वायुः शनैर्देवविचेष्टितं। सुरानुवाच भगवांस्ततः स्मितमुखांबुजः
ब्रह्मोवाच। अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः। यस्य वध्यस्स नाद्यापि जातस्त्रिभुवने पुमान्
मया स वरदानेन छंदयित्वा निवारितः। तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकः
स तु वव्रे वधं दैत्यश्शिशुतः सप्तवासरात्। स तु सप्तदिनो बालः शंकराद्यो भविष्यति
तारकस्य निहंता स भास्कराभो भविष्यति। सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः
हिमाचलस्य दुहिता या च देवी भविष्यति। तस्याः सकाशाद्यः सूनुररण्याः पावको यथा
जनयिष्यति तं प्राप्य तारको न भविष्यति। मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.
शेषं चाप्यस्य विभवं विभजध्वमनंतरं। स्तोककालं प्रतीक्षध्वं निर्विशंकेन चेतसा
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना। जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः। निशां सस्मार भगवांस्तां देवीं पूर्वसंभवां
ततो भगवती रात्रिरुपतस्थे पितामहं। तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्
ब्रह्मोवाच-। विभावरि महत्कार्यं देवानां समुपस्थितं। तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः। तस्या भवाय भगवान्जनयिष्यति चेश्वरः
सुतं स भविता तस्य तारकस्यांतकः किल। शंकरस्याभवत्पत्नी सती दक्षसुता तु या
सा पितुः कुपिता देवी कस्मिंश्चित्कारणांतरे। भवित्री हिमशैलस्य दुहिता लोकभाविनी