लोकपालांस्ततो दैत्यो बद्ध्वा चेंद्रमुखान्रणे। सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव
स भूयो रथमास्थाय जगाम स्वकमालयं। सिद्धगंधर्वसंघुष्टं विपुलाचलमस्तकम्
पुलस्त्य उवाच-। प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकांबरः। स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्। दैत्येंद्रमर्कवृंदाभं बिभ्रतं भास्वरं वपुः
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति। स विज्ञापयति स्थेयं क्व वंदिनि च यैः प्रभो
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्। यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं
केवलं वासवं त्वेकं मुंडयित्वा विमुच्यताम्। सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्
एवं कृते ततो देवा दूयमानेन चेतसा। जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः। तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्
देवा ऊचुः-। नमस्त्वोंकारांकुरादिप्रसूत्यै विश्वस्थानानंतभेदस्य पूर्वम्। संभूतस्यानंतरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिंत्य। द्यावापृथ्व्योरूर्द्ध्वलोकांस्तथाधश्चांडादस्मात्त्वं विभागं चकर्थ
व्यक्तं मेरुर्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोवकाशः। व्यक्तं देवा जज्ञिरे यस्य देहाद्देहस्यांतश्चारिणो देहभाजः
द्यौस्ते मूर्द्धा लोचने चंद्रसूर्यौ व्यालाः केशाः श्रोत्ररंध्रे दिशस्ते। गात्रं यज्ञः सिंधवः संधयो वै पादौ भूमिस्तूदरं ते समुद्राः
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शांतो ज्योतिरर्कस्त्वमुक्तः। वेदार्थेन त्वां विवृण्वंति बुद्ध्या हृत्पद्मांतः संनिविष्टं पुराणम्
त्वां चात्मानं लब्धयोगा गृणंति सांख्यैर्याः स्ताः सप्तसूक्ष्माः प्रणीताः। तासां हेतुर्याष्टमी चापि गीता तास्वंतस्थो जीवभूतस्त्वमेव
दृष्ट्वा मूर्त्तिं स्थूलसूक्ष्मांचकार ये वै भावाः कारणे केचिदुक्ताः। संभूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः
त्वत्संकेतस्त्वंतरायो निगूढः कालोऽमेयो ध्वस्तसंख्याविकल्पः। भावाभावाव्यक्तिसंहारहेतुः सोऽनंतस्त्वं तस्य कर्ता निधानम्
स्थूलस्सर्वोऽनर्थभूतस्ततोन्यस्सोऽर्थस्सूक्ष्मो यो हि तेभ्योपिगीतः। स्थूला भावाश्चावृता यैश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः
भूतंभूतं भूतिमद्भूतभावं भावेभावे भावितं त्वं युनक्षि। युक्तंयुक्तं व्यक्तिभावान्निरस्य स्थानेस्थाने व्यक्तिवृत्तिं करोषि
इत्थं देवो व्यक्तिभाजां शरण्यस्त्राता गोप्ता भावितोऽनंतमूर्तिः। विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम्
तस्थुर्मनोभिरिष्टार्थसंप्राप्ति प्रार्थनास्ततः। एवं स्तुतो विरिंचिस्तु प्रसादं परमं गतः
अमरान्वरदोप्याह वामहस्तेन निर्दिशन्। ब्रह्मोवाच-। नारी वा भर्तृका कस्माद्धस्तसंत्यक्तभूषणा
न राजसे कुतश्शक्रा म्लानवक्त्रसरोरुहः। हुताशनवियुक्तोपि धूमेन न विराजसे
तृणौघेन प्रतिच्छन्नो दग्धदावश्चिरोषितः। यमामयशरीरेण क्लिष्टो नाद्य विराजसे
दंडेनालंबनेनेव कृष्टो येन पदेपदे। रजनीचरनाथ त्वं किं भीत इव भाषसे
राक्षसेंन्द्रकृतादाने त्वमरातिक्षतो यथा। तनुस्ते वरुणोच्छुष्कापरीतस्येव वह्निना
विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय। वायो भवान्विचेतस्कः खड्गाग्रैरिव निष्कृतः
किं त्वं नतोसि धनद संत्यज्येव कुबेरतां। रुद्रास्त्रिशूलिनः संतोऽविदध्वं बहुशूरतां
भवतां केन चाक्षिप्ता तीव्रता नस्तदुच्यतां। एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना
वाचां प्रधानभूतत्वात्ते मारुतमचोदयन्। अथ शक्रमुखैर्देवैः पवनः प्रतिचोदितः