भवंतो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः। स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः
क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम। आह्रियंतां च शस्त्राणि पूज्यंतां शस्त्रदेवताः
वाहनानि विमानानि योजयद्ध्वं ममेश्वराः। यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः
इत्युक्तास्समनह्यंत देवानां ये प्रधानतः। वाजिनामयुतेनाजौ हेमघंटा परिष्कृतम्
नानाश्चर्यगुणोपेतं संप्राप्तं देवदानवैः। रथं मातलिना युक्तं देवराजस्य दुर्जयम्
यमो महिषमास्थाय सेनाग्रे समवर्त्तत। चंडकिंकरवृंदेन सर्वतः परिवारितः
कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः। हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः
पवनोऽङकुशहस्तश्च विस्तारित महाजवः। भुजगेंद्रसमारूढो जलेशो भगवान्स्वयम्
नरयुक्ते रथे देवो राक्षसेशो वियच्चरः। तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः
महासिंहरथे देवो धनाध्यक्षो गदायुधः। चंद्रादित्यावश्विनौ च चतुरंगबलान्विताः
सेनान्यो देवराजस्य दुर्जया भुवनत्रये। कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम्1.42.
हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुंदरस्रजि। कृताभिरामो ज्वलकुंकुमांकुरे कपोललीलालिकदंबसंकुले
स्थितस्तदैरावणनाम कुंजरे महामनाश्चित्रविभूषणांबरः। विशालवज्रः सुवितानभूषितः प्रकीर्णकेयूरभुजंगमंडलः
सहस्रदृग्वंदितपादपल्लवस्त्रिविष्टपे शोभत पाकशासनः। तुरंग मातंग कुलौघसंकुला सितातपत्त्रद्ध्वजशालिनी च
बभूव सा दुर्जयपत्तिसंतता विभाति नानायुधयोधदुस्तरा। ततोश्विनौ च मरुतः ससाध्याः सपुरंदराः
यक्षराक्षसगंधर्वा दिव्य नानास्त्रपाणयः। जघ्नुर्दैत्येश्वरं सर्वे संभूय तु महाबलाः
न चैवास्त्राण्यसज्जंत गात्रे वज्राचलोपमे। अथो रथादवप्लुत्य तारको दानवाधिपः
जघान कोटिशो देवान्करपार्ष्णिभिरेव च। हतशेषाणि सैन्यानि देवानां विप्र दुद्रुवुः
दिशो भीतानि संत्यज्य रणोपकरणानि च। दृष्ट्वा तान्विद्रुतान्देवांस्तारको वाक्यमब्रवीत्
मा वधिष्ठ सुरान्दैत्या वज्रांगाय च मंदिरे। शीघ्रमानीय दर्श्यंतां बद्धान्पश्यत्वयं सुरान्
लोकपालांस्ततो दैत्यो बद्ध्वा चेंद्रमुखान्रणे। सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव
स भूयो रथमास्थाय जगाम स्वकमालयं। सिद्धगंधर्वसंघुष्टं विपुलाचलमस्तकम्
पुलस्त्य उवाच-। प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकांबरः। स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्। दैत्येंद्रमर्कवृंदाभं बिभ्रतं भास्वरं वपुः
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति। स विज्ञापयति स्थेयं क्व वंदिनि च यैः प्रभो
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्। यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं
केवलं वासवं त्वेकं मुंडयित्वा विमुच्यताम्। सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्
एवं कृते ततो देवा दूयमानेन चेतसा। जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः। तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्
देवा ऊचुः-। नमस्त्वोंकारांकुरादिप्रसूत्यै विश्वस्थानानंतभेदस्य पूर्वम्। संभूतस्यानंतरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते