तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः। सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्
आहत्य भेरीं गंभीरां दैत्यानाहूय सत्वरः। दशकोटीश्वरा दैत्या दैत्यानां चंडविक्रमाः
तेषामग्रेसरो जंभः कुजंभोनंतरोऽसुरः। महिषः कुंजरो मेघः कालनेमिर्निमिस्तथा
मंथनो जंभकः शुम्भो दैत्येंद्रा दशनायकाः। अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः
गरुडानां सहस्रेण चक्राष्टकविभूषितः। सकूबरपरीवारश्चतुर्योजनविस्तृतः
स्यंदनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः। युक्ता रथास्तु ग्रसन जंभकौ जंभकुंभिनां
मेघस्य द्वीपिभिर्युक्तः कूष्मांडैः कालनेमिनः। पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः
शतहस्ततुरंगस्थो मंथनो नाम दैत्यराट्। जंभकस्तूष्ट्रमारूढो गिरींद्राभं महाबलः
शुंभो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः। प्रचंडाश्चित्रवर्माणः कुंडलोष्णीषभूषिताः
तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत। प्रमत्तमत्तमातंगतुरंगरथसंकुलम्
प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्। एतस्मिन्नंतरे वायुर्देवदूतोऽसुरालये
दृष्ट्वा तद्दानवबलं जगामेंद्रस्य शंसितुं। स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्। तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः। इंद्र उवाच। संप्राप्नोति विमर्दोयं देवानां दानवैः सह
कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्। एतच्छ्रुत्वा तु वचनं महेंद्रस्य गिरां पतिः
इत्युवाच महाभागो बृहस्पतिरुदारधीः। बृहस्पतिरुवाच। सामपूर्वा श्रुता नीतिश्चतुरंगा पताकिनी
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी। सामभेदस्तथा दानं दंडश्चांगचतुष्टयम्
न सांत्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः। न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्
एकोभ्युपायो दंडोऽत्र भवतां यदि रोचते। एवमुक्तः सहस्राक्ष एवमेतदुवाच ह
कर्त्तव्यतां च संचिंत्य प्रोवाचामरसंसदि। इंद्र उवाच। अवधानेन मे वाचं शृणुध्वं नाकवासिनः
भवंतो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः। स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः
क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम। आह्रियंतां च शस्त्राणि पूज्यंतां शस्त्रदेवताः
वाहनानि विमानानि योजयद्ध्वं ममेश्वराः। यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः
इत्युक्तास्समनह्यंत देवानां ये प्रधानतः। वाजिनामयुतेनाजौ हेमघंटा परिष्कृतम्
नानाश्चर्यगुणोपेतं संप्राप्तं देवदानवैः। रथं मातलिना युक्तं देवराजस्य दुर्जयम्
यमो महिषमास्थाय सेनाग्रे समवर्त्तत। चंडकिंकरवृंदेन सर्वतः परिवारितः
कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः। हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः
पवनोऽङकुशहस्तश्च विस्तारित महाजवः। भुजगेंद्रसमारूढो जलेशो भगवान्स्वयम्
नरयुक्ते रथे देवो राक्षसेशो वियच्चरः। तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः
महासिंहरथे देवो धनाध्यक्षो गदायुधः। चंद्रादित्यावश्विनौ च चतुरंगबलान्विताः