उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः। तारक उवाच। शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः
वंशक्षयकरा देवाः सर्वेषामेव दानवाः। अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्
वयं तपश्चरिष्यामः सुराणां निग्रहाय तु। स्वबाहुबलमाश्रित्य सर्व एव न संशयः
तच्छ्रुत्वा संमतं कृत्वा पारियात्रं ययौ गिरिं। निराहारः पंचतपाः पत्रभुग्वारिभोजनः
शतंशतं समानां तु तपांस्येतान्यथाकरोत्। एवं तु कर्शिते देहे तपोराशित्वमागते
ब्रह्मागत्याह दैत्येंद्रं वरं वरय सुव्रत। स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति
तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्। यतस्ततोपि वरय मृत्युं यस्मान्न शंकसे
ततः संचिंत्य दैत्येंद्रः शिशोर्वै सप्तवासरात्। वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः
जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्। अथाह मंत्रिणस्तूर्णं बलं मे संप्रयुज्यताम्
यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः। निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः। सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्
आहत्य भेरीं गंभीरां दैत्यानाहूय सत्वरः। दशकोटीश्वरा दैत्या दैत्यानां चंडविक्रमाः
तेषामग्रेसरो जंभः कुजंभोनंतरोऽसुरः। महिषः कुंजरो मेघः कालनेमिर्निमिस्तथा
मंथनो जंभकः शुम्भो दैत्येंद्रा दशनायकाः। अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः
गरुडानां सहस्रेण चक्राष्टकविभूषितः। सकूबरपरीवारश्चतुर्योजनविस्तृतः
स्यंदनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः। युक्ता रथास्तु ग्रसन जंभकौ जंभकुंभिनां
मेघस्य द्वीपिभिर्युक्तः कूष्मांडैः कालनेमिनः। पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः
शतहस्ततुरंगस्थो मंथनो नाम दैत्यराट्। जंभकस्तूष्ट्रमारूढो गिरींद्राभं महाबलः
शुंभो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः। प्रचंडाश्चित्रवर्माणः कुंडलोष्णीषभूषिताः
तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत। प्रमत्तमत्तमातंगतुरंगरथसंकुलम्
प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्। एतस्मिन्नंतरे वायुर्देवदूतोऽसुरालये
दृष्ट्वा तद्दानवबलं जगामेंद्रस्य शंसितुं। स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्। तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः। इंद्र उवाच। संप्राप्नोति विमर्दोयं देवानां दानवैः सह
कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्। एतच्छ्रुत्वा तु वचनं महेंद्रस्य गिरां पतिः
इत्युवाच महाभागो बृहस्पतिरुदारधीः। बृहस्पतिरुवाच। सामपूर्वा श्रुता नीतिश्चतुरंगा पताकिनी
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी। सामभेदस्तथा दानं दंडश्चांगचतुष्टयम्
न सांत्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः। न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्
एकोभ्युपायो दंडोऽत्र भवतां यदि रोचते। एवमुक्तः सहस्राक्ष एवमेतदुवाच ह
कर्त्तव्यतां च संचिंत्य प्रोवाचामरसंसदि। इंद्र उवाच। अवधानेन मे वाचं शृणुध्वं नाकवासिनः