कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि। वरांग्युवाच। त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च
रौद्रेण देवराजेन नष्टनाथेव भूरिशः। दुःखस्यांतमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता
पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्। एवमुक्तस्तु दैत्येंद्रः कोपव्याकुललोचनः
शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः। तप एव पुनश्चर्तुं व्यवस्यत महाबलः
ज्ञात्वा तस्य तु संकल्पं ब्रह्मा क्रूरतरं पुनः। आजगाम त्वरायुक्तो यत्रासौ दितिनंदनः
ब्रह्मोवाच। किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः। तदहं ते पुनर्दद्मि कांक्षितं पुत्रमोजसा
वज्रांग उवाच। उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया। त्रासितेंद्रेण मामाह सा वरांगी सुतार्थिनी
पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह। ब्रह्मोवाच। अलं ते तपसा वीर मा क्लेशे दुस्तरे विश
पुत्रस्तु तारको नाम भविष्यति महाबलः। देवसीमंतिनीनां तु धम्मिल्लक विमोक्षकः
इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्। गत्वा तां नंदयामास महिषीं कर्शितांतराम्
तौ दंपती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा। आहितं तु तदा गर्भं वरांगी वरवर्णिनी1.42.
पूर्णं वर्षसहस्रं तु दधारोदर एव हि। ततो वर्षसहस्रांते वरांगी सा प्रसूयत
जायमाने तु दैत्ये तु तस्मिन्लोकभयंकरे। चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः
चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः। जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि
जहौ कांतिश्चंद्रसूर्यौ नीहारच्छादिता दिशः। जाते महासुरे तस्मिन्सर्वे चापि महासुराः
आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः। जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः
ततो महोत्सवे जाते दानवानां महाद्युते। विषण्णमनसो देवाः सहेंद्रा अभवंस्तदा
वरांगी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा। बहुमेने च दैत्येंद्रो विजातं तं तदा तया
जातमात्रस्तु दैत्येंद्रस्तारकश्चोग्रविक्रमः। अभिषिक्तो सुरैर्मुख्यैः कुजंभमहिषादिभिः
सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे। स तु प्राप्तमहाराज्यस्तारको नृपसत्तम
उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः। तारक उवाच। शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः
वंशक्षयकरा देवाः सर्वेषामेव दानवाः। अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्
वयं तपश्चरिष्यामः सुराणां निग्रहाय तु। स्वबाहुबलमाश्रित्य सर्व एव न संशयः
तच्छ्रुत्वा संमतं कृत्वा पारियात्रं ययौ गिरिं। निराहारः पंचतपाः पत्रभुग्वारिभोजनः
शतंशतं समानां तु तपांस्येतान्यथाकरोत्। एवं तु कर्शिते देहे तपोराशित्वमागते
ब्रह्मागत्याह दैत्येंद्रं वरं वरय सुव्रत। स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति
तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्। यतस्ततोपि वरय मृत्युं यस्मान्न शंकसे
ततः संचिंत्य दैत्येंद्रः शिशोर्वै सप्तवासरात्। वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः
जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्। अथाह मंत्रिणस्तूर्णं बलं मे संप्रयुज्यताम्
यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः। निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः