तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसंभवः। वरांगीति च नामास्याः कृत्वा यातः पितापहः
वज्रांगोपि तया सार्द्धं जगाम तपसे वनम्। ऊर्द्ध्वबाहुस्स दैत्येंद्रो चरद्वर्षसहस्रकम्
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः। तावच्चाधोमुखः कालं तावत्पंचाग्निमध्यगः
निराहारो घोरतपास्तपोराशिरजायत। ततः सोंतर्जले चक्रे वासं वर्षसहस्रकम्
जलांतरं प्रविष्टस्य तस्य पत्नी महाव्रता। तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता
निराहारं तपो घोरं प्रविवेश महाद्युतिः। तस्यां तपसि वर्तंत्यामिंद्रश्चक्रे विभीषिकाम्
गत्वा तु मर्कटाकारस्तदाश्रमपदं महत्। ब्रसीं चकर्ष बलवान्गंधाद्यर्चाकरंडकम्
ततस्तु सिंहरूपेण भीषयामास भामिनीम्। ततो भुजंगरूपेणाप्यदशच्चरणद्वयम्
तपोबलवशात्सा तु नवध्यत्वं जगाम ह। भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः
विरराम यदा नैव वज्रांगमहिषी तदा। शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः। उवाच तां वरारोहां वरांगीं भीतलोचनः
शैल उवाच। नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम्। विप्रियं ते करोत्येष रुषितः पाकशासनः
एतस्मिन्नंतरे जातः कालो वर्षसहस्रकः। तस्मिन्ज्ञात्वा तु भगवान्काले कमलसंभवः
तुष्टः प्रोवाच वज्रांगं तदागत्य जलाशयम्। ब्रह्मोवाच। ददामि सर्वकामं त उत्तिष्ठ दितिनंदन
एवमुक्तस्तदोत्थाय स दैत्येंद्रस्तपोनिधिः। उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्
वज्रांग उवाच। आसुरो मास्तु मे भावः संतु लोका ममाक्षयाः। तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्
एवमस्त्विति तं देवो जगाम स्वकमालयम्। वज्रांगोपि समाप्ते तु तपसि स्थिरसंयमः
संगंतुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके। क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्। रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्। वज्रांग उवाच। केन तेऽपकृतं भद्रे यमलोकं यियासुना
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि। वरांग्युवाच। त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च
रौद्रेण देवराजेन नष्टनाथेव भूरिशः। दुःखस्यांतमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता
पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्। एवमुक्तस्तु दैत्येंद्रः कोपव्याकुललोचनः
शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः। तप एव पुनश्चर्तुं व्यवस्यत महाबलः
ज्ञात्वा तस्य तु संकल्पं ब्रह्मा क्रूरतरं पुनः। आजगाम त्वरायुक्तो यत्रासौ दितिनंदनः
ब्रह्मोवाच। किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः। तदहं ते पुनर्दद्मि कांक्षितं पुत्रमोजसा
वज्रांग उवाच। उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया। त्रासितेंद्रेण मामाह सा वरांगी सुतार्थिनी
पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह। ब्रह्मोवाच। अलं ते तपसा वीर मा क्लेशे दुस्तरे विश
पुत्रस्तु तारको नाम भविष्यति महाबलः। देवसीमंतिनीनां तु धम्मिल्लक विमोक्षकः
इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्। गत्वा तां नंदयामास महिषीं कर्शितांतराम्