हूयंतामग्नयो विप्रैर्वेददृष्टेन कर्मणा। देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः
श्राद्धेन पितरश्चैव तुष्टिं यांतु यथासुखम्। वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः
त्रयोवर्णाश्च लोकांस्त्रीस्तपर्पयंत्वात्मजैर्गुणैः। क्रतवः संप्रवर्तंतां दीक्षणीयैर्द्विजातिभिः
दक्षिणाश्चोपपद्यंतां याज्ञिकैश्च पृथक्पृथक्। गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु
तर्पयन्तः प्रवर्तंतामेते सोम्यैः स्वकर्मभिः। यथावदनुपूर्वेण महेंद्रमलयोद्भवाः
त्रैलोक्यमातरः सर्वाः समुद्रं यांतु सिंधवः। दैत्येभ्यस्त्यज्यतां भीश्च शांतिं व्रजत देवताः
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनं। स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः
विश्वस्तैश्च न गंतव्यं नित्यं क्षुद्रा हि दानवाः। छिद्रेषु प्रहरंत्येते न तेषां संस्थितिर्ध्रुवा
सौम्यानां निजभावानां भवतामार्जवे मनः। एवमुक्त्वा सुरगणान्विष्णुस्सत्यपराक्रमः
जगाम ब्रह्मणा सार्द्धं ब्रह्मलोकं महायशाः। देवानां महतीं प्रीतिमुत्पाद्य भगवान्प्रभुः
एतदाश्चर्यमभवत्संग्रामे तारकामये। दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि
भीष्म उवाच। श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः। समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च
श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत्। तारकश्च कथं भूतो दानवो बलवत्तरः
कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः। कथं रुद्रेण मुनयः प्रेषिता मंदरं गिरिम्
कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना। एतदाख्याहि मे सर्वं यथाभूतं महामुने
पुलस्त्य उवाच। कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा। वज्रसारमयैश्चांगैः पुत्रो देवि भविष्यति
वज्रांगो नाम पुत्रस्तु भविता धर्मवत्सलः। सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्
स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः। उवाच मातरं भक्त्या मातः किं करवाण्यहम्
तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु। बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक
तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु। बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्
बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा। मातुरंतिकमागच्छद्व्याधः क्षुद्रमृगं यथा
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः। आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च। मुंचैनं पुत्र देवेंद्रं किमनेन प्रयोजनम्
अवमानो वधः प्रोक्तः पुत्र संभावितस्य तु। अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः
परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे। सजीवन्नेव हि मृतो दिवसे दिवसे पुनः
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्। न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे
त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः। करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः
तपसेमेरतिर्देवनिर्विघ्नंतच्चमेभवेत्। त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह
तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः। ब्रह्मोवाच। तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः
अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम्। इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्