साधुसाध्विति वैकुंठं समेताः प्रत्यपूजयन्। अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे। कांश्चित्केशेषु जग्राह कांश्चित्कंठेष्वपीडयत्
चकर्त कस्यचिद्वक्त्रं मध्ये गृह्णात्तथापरम्। ते गदाचक्रनिर्दग्धा गतसत्वा गतासवः
गगनाद्भ्रष्टसर्वांगा निपेतुर्धरणीतले। तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः
शक्रप्रियं ततः कृत्वा कृतकर्मगदाधरः। तस्मिन्विमर्दे संवृत्ते संग्रामे तारकामये
तं च देशं जगामाशु ब्रह्मा लोकपितामहः। सर्वैर्ब्रह्मर्षिभिः सार्द्धं गंधर्वाप्सरसांगणैः
देवदेवं हरिं देवः पूजयन्वाक्यमब्रवीत्। कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम्
निधनेन च दैत्यानां वयं च परितोषिताः। योऽयं त्वया हतो विष्णो कालनेमिर्महासुरः
त्वामेतस्य ॠते ह्यस्मिन्शास्ता कश्चिन्न विद्यते। एष देवान्परिभवन्लोकांश्च सचराचरान्
ॠषीणां कदनं कृत्वा मामपि प्रतिगर्जति। तदनेन त्वदीयेन परितुष्टोस्मि कर्मणा
यदयं कालकल्पस्ते कालनेमिर्निपातितः। तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमाम्1.41.
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षंते सदो गताः। कं चाहं तव दास्यामि वरं वरभृतां वर
स्वस्थानस्थेषु देवेषु तेषां च वरदो भवान्। निर्यातमेतत्त्रैलोक्यं स्फीतं निहतकंटकम्
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने। एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः
देवान्शक्रमुखान्सर्वानुवाच शुभया गिरा। विष्णुरुवाच। श्रूयतां त्रिदशास्सर्वे यावंतोऽत्र समागताः
सुपर्णसहितैस्तत्र पुरस्कृत्य पुरंदरं। अस्माभिः समरे सर्वैः कालनेमिमुखा हताः
दानवा विक्रमोपेताः शक्रादपि महत्तराः। अस्मिन्महति संग्रामे द्वावेव तु विनिस्सृतौ
विरोचनस्तु दैतेयः स्वर्भानुश्च महाबलः। स्वां दिशं भजतां शक्रो दिशं वरुण एव च
याम्यां यमः पालयतामुत्तरां च धनाधिपः। ॠक्षैः सह सदा योगं गच्छतां चंद्रमास्तथा
अयमृतुमुखं सूर्यो भजतामयनैः सह। आज्यभागाः प्रवर्तंतां सदस्यैरभिपूजिताः
हूयंतामग्नयो विप्रैर्वेददृष्टेन कर्मणा। देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः
श्राद्धेन पितरश्चैव तुष्टिं यांतु यथासुखम्। वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः
त्रयोवर्णाश्च लोकांस्त्रीस्तपर्पयंत्वात्मजैर्गुणैः। क्रतवः संप्रवर्तंतां दीक्षणीयैर्द्विजातिभिः
दक्षिणाश्चोपपद्यंतां याज्ञिकैश्च पृथक्पृथक्। गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु
तर्पयन्तः प्रवर्तंतामेते सोम्यैः स्वकर्मभिः। यथावदनुपूर्वेण महेंद्रमलयोद्भवाः
त्रैलोक्यमातरः सर्वाः समुद्रं यांतु सिंधवः। दैत्येभ्यस्त्यज्यतां भीश्च शांतिं व्रजत देवताः
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनं। स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः
विश्वस्तैश्च न गंतव्यं नित्यं क्षुद्रा हि दानवाः। छिद्रेषु प्रहरंत्येते न तेषां संस्थितिर्ध्रुवा
सौम्यानां निजभावानां भवतामार्जवे मनः। एवमुक्त्वा सुरगणान्विष्णुस्सत्यपराक्रमः
जगाम ब्रह्मणा सार्द्धं ब्रह्मलोकं महायशाः। देवानां महतीं प्रीतिमुत्पाद्य भगवान्प्रभुः