स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः। न चचाल ततो युद्धे कंप्यमान इवाचलः
संयुक्तश्च सुपर्णेन कालनेमिर्महासुरः। सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः
घोरां ज्वलंतीं मुमुचे संरब्धो गरुडोपरि। कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागमत्
तदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा। सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः
क्रोधसंरक्तनयनो वैकुंठश्चक्रमाददे। व्यवर्द्धत च वेगेन सुपर्णेन समं विभुः
भुजाश्चास्य व्यवर्धंत व्याप्तवंतो दिशो दश। विदिशश्चैव खं चापि गां चैव प्रतिपूरयन्
ववृधे स पुनर्लोकान्क्रांतुकाम इवौजसा। तं जयाय सुरेंद्राणां वर्द्धमानं नभस्तले
ॠषयः सह गंधर्वास्तुष्टुवुर्मधुसूदनम्। सद्यां किरीटेन लिखन्शिरसा भास्वरेण च
पद्भ्यामाक्रम्यवसुधां दिशः प्रच्छाद्य बाहुभिः। सहस्रकरतुल्याभं सहस्रारमरिक्षयम्
दीप्ताग्निसदृशं घोरंदर्शनेन सुदर्शनम्। सुवर्णरेणुपर्यंतं वज्रनाभं भयावहं
मेदोस्थिमज्जरुधिरैः सिक्तं दानवसंभवैः। अद्वितीयं प्रहरणं क्षुरपर्यंतमंडलम्
स्रग्दाममालानिचितं कामगं कामरूपिणं। स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम्
दधार रोषेणाविष्टं नित्यमाहवदर्पितं। क्षेपणाद्यस्य मुह्यंति लोकाः सस्थाणुजंगमाः
क्रव्यादानि च भूतानि तृप्तिं यांति महामृधे। तमप्रतिमकर्माणं समानं सूर्यवर्चसा
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः। प्रणष्टं दानवं तेजः कुर्वाणं स्वेन तेजसा
चिच्छेद बाहूंस्तेनैव समरे कालनेमिनः। तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासि वै
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः। सच्छिन्नबाहुर्विशिरानप्राकंपत दानवः
कबंधावस्थितः संख्ये विशाखइव पादपः। तंवितत्य महापक्षौ वायोः कृत्वा समं जवम्
उरसा ताडयामास गरुडः कालनेमिनं। स तस्य देहोभिमुखो विबाहुः खात्परिभ्रमन्
निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम्। तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तथा
साधुसाध्विति वैकुंठं समेताः प्रत्यपूजयन्। अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे। कांश्चित्केशेषु जग्राह कांश्चित्कंठेष्वपीडयत्
चकर्त कस्यचिद्वक्त्रं मध्ये गृह्णात्तथापरम्। ते गदाचक्रनिर्दग्धा गतसत्वा गतासवः
गगनाद्भ्रष्टसर्वांगा निपेतुर्धरणीतले। तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः
शक्रप्रियं ततः कृत्वा कृतकर्मगदाधरः। तस्मिन्विमर्दे संवृत्ते संग्रामे तारकामये
तं च देशं जगामाशु ब्रह्मा लोकपितामहः। सर्वैर्ब्रह्मर्षिभिः सार्द्धं गंधर्वाप्सरसांगणैः
देवदेवं हरिं देवः पूजयन्वाक्यमब्रवीत्। कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम्
निधनेन च दैत्यानां वयं च परितोषिताः। योऽयं त्वया हतो विष्णो कालनेमिर्महासुरः
त्वामेतस्य ॠते ह्यस्मिन्शास्ता कश्चिन्न विद्यते। एष देवान्परिभवन्लोकांश्च सचराचरान्
ॠषीणां कदनं कृत्वा मामपि प्रतिगर्जति। तदनेन त्वदीयेन परितुष्टोस्मि कर्मणा