पंच तं नाभ्यवर्तंत विपरीतेन कर्मणा। वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया
स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः। वैष्णवं पदमन्विच्छन्स गतो देवतायतः
स ददर्श सुपर्णस्थं शंखचक्रगदाधरं। दानवानां विनाशाय भ्रामयंतं गदां शुभां
सजलांभोदसदृशं विद्युत्सदृशवाससं। आरूढं स्वर्णपत्राढ्यं खेचरं काश्यपं खगं
दुष्टदैत्यविनाशाय दृष्ट्वा खस्थमिवस्थितं। दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः। अर्णवावासिनश्चैव मधोश्च कैटभस्य च
अयं स रिपुरस्माकमसमः किल कथ्यते। अनेकसंयुगेनेन दानवा बहवो हताः
अयं स निर्घृणो लोके स्त्रीबालनिरपत्त्रपः। येन दानवनारीणां सीमंतोद्वरणं कृतम्
अयं स विष्णुर्देवानां वैकुंठश्च दिवौकसाम्। अनंतो भोगिनां मध्ये स्वयंभूश्च स्वयंभुवः
अयं स नाथो देवानामस्माभिर्विप्रकृष्यते। अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः
अस्यच्छायामुपाश्रित्य देवा मखमुखे स्थिताः। आज्यं महर्षिभिर्दत्तमश्नुवंति त्रिधा हुतम्1.41.
अयं स निधने हेतुः सर्वेषाममरद्विषाम्। अस्य चक्रप्रविष्टानि कुलान्यस्माकमाहवे
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः। स विभुस्तेजसा युक्तं चक्रं क्षिपति शत्रुषु
अयं स कालो दैत्यानां कालभूते मयि स्थिते। अतिक्रांतस्य कालस्य फलं प्राप्स्यति केशवः
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः। निष्पिष्टो बहुना संख्ये मय्येव प्रणशिष्यति
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे। इमन्नारायणं हत्वा दानवानां भयावहम्
क्षिप्रमेव हनिष्यामि रणेऽमरगणानहम्। जात्यंतरगतोप्येष बाधते दानवान्मृधे
एषोऽनंतः पुरा भूत्वा पद्मनाभ इति श्रुतः। जघानैकार्णवे घोरे तावुभौ मधुकैटभौ
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च। पितरं मे जघानैको हिरण्यकशिपुं पुरा
शुभं गर्भमधत्तैनमदितिर्देवतारणिः। त्रीन्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः
भूयस्त्विदानीं संप्राप्ते संग्रामे तारकामये। मया सह समागम्य स देवो विनशिष्यति
एवमुक्त्वा बहुविधं क्षिप्रं नारायणं रणे। वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत्
क्षिप्यमाणोऽसुरेंद्रेण न चुकोप गदाधरः। क्षमाबलेन महता सस्मितं चेदमब्रवीत्
अल्पं दर्पबलं दैत्य स्थिरमक्रोधजं बलम्। हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम्
अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम्। के तत्र पुरुषाः संति यत्र गर्जंति योषितः
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम्। प्रजापतिं कृतं सेतुं त्यक्त्वा कः स्वस्तिमान्भवेत्
अद्य त्वां नाशयिष्यामि देवव्यापारघातकम्। स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि। जहास दानवः क्रोधाद्धस्तांश्चक्रेण सायुधान्
स बाहुशतमुद्यम्य सर्वायुधगणान्रणे। क्रोधाद्विगुणरक्ताक्षो विष्णोर्वक्षस्य पातयत्
दानवाश्चापि समरे मयतारपुरोगमाः। उद्यतायुधनिस्त्रिंशा विष्णुमभ्यद्रवन्रणे