यमः सर्वहरस्तेन मृत्युप्रहरणो रणे। याम्यामवस्थां संत्यज्य भीतः स्वां दिशमाविशत्
सलोकपालानुत्सार्य हृत्वा तेषां च कर्म तत्। दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा
स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितं। जहार लक्ष्मीं सोमस्य यच्चास्य विषयं महत्
चालयामास दीप्तांशुं धर्मद्वारा सभास्करं। शासनं चास्य विषयं जहार दिनकर्म च
सोग्निं देवमुखं जित्वा चकारात्ममुखाश्रयं। वायुं च तरसा जित्वा चकारात्मवशानुगं
स समुद्रात्समानीय समस्ताः सरितो बलात्। चकाराभिसुखावीर्या देहभूताश्च सिंधवः
अपः स्ववशगाः कृत्वा दिविजायाश्च भूमिजाः। छादयामास जगतीं सुगुप्तां धरणीधरैः
स स्वयंभूरिवाभाति महाभूतपतिर्महान्। सर्वलोकमयो दैत्यः सर्वलोकभयावहः
स लोकपालैकवपुश्चंद्रसूर्यग्रहात्मवान्। पावकानिलसंभूतो रराज युधि दानवः
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे। तं तुष्टुवुर्दैत्यगणा देवा इव पितामहं
पंच तं नाभ्यवर्तंत विपरीतेन कर्मणा। वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया
स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः। वैष्णवं पदमन्विच्छन्स गतो देवतायतः
स ददर्श सुपर्णस्थं शंखचक्रगदाधरं। दानवानां विनाशाय भ्रामयंतं गदां शुभां
सजलांभोदसदृशं विद्युत्सदृशवाससं। आरूढं स्वर्णपत्राढ्यं खेचरं काश्यपं खगं
दुष्टदैत्यविनाशाय दृष्ट्वा खस्थमिवस्थितं। दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः। अर्णवावासिनश्चैव मधोश्च कैटभस्य च
अयं स रिपुरस्माकमसमः किल कथ्यते। अनेकसंयुगेनेन दानवा बहवो हताः
अयं स निर्घृणो लोके स्त्रीबालनिरपत्त्रपः। येन दानवनारीणां सीमंतोद्वरणं कृतम्
अयं स विष्णुर्देवानां वैकुंठश्च दिवौकसाम्। अनंतो भोगिनां मध्ये स्वयंभूश्च स्वयंभुवः
अयं स नाथो देवानामस्माभिर्विप्रकृष्यते। अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः
अस्यच्छायामुपाश्रित्य देवा मखमुखे स्थिताः। आज्यं महर्षिभिर्दत्तमश्नुवंति त्रिधा हुतम्1.41.
अयं स निधने हेतुः सर्वेषाममरद्विषाम्। अस्य चक्रप्रविष्टानि कुलान्यस्माकमाहवे
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः। स विभुस्तेजसा युक्तं चक्रं क्षिपति शत्रुषु
अयं स कालो दैत्यानां कालभूते मयि स्थिते। अतिक्रांतस्य कालस्य फलं प्राप्स्यति केशवः
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः। निष्पिष्टो बहुना संख्ये मय्येव प्रणशिष्यति
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे। इमन्नारायणं हत्वा दानवानां भयावहम्
क्षिप्रमेव हनिष्यामि रणेऽमरगणानहम्। जात्यंतरगतोप्येष बाधते दानवान्मृधे
एषोऽनंतः पुरा भूत्वा पद्मनाभ इति श्रुतः। जघानैकार्णवे घोरे तावुभौ मधुकैटभौ
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च। पितरं मे जघानैको हिरण्यकशिपुं पुरा
शुभं गर्भमधत्तैनमदितिर्देवतारणिः। त्रीन्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः