सत्या करे करं कृत्वागमत्कल्पतरोस्तलम् । निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः
प्रहस्य सत्यामामंत्र्य प्रोवाच जगतांपतिः । तत्प्रीति परितोषार्थं लसत्पुलकितांगजः
कृष्ण उवाच-। न मे त्वत्तः प्रियतमा काचिदन्या नितंबिनी । षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि
त्वदर्थं देवराजेन विरोधो दैवतैः सह । त्वया यत्प्रार्थितं कांते शृणु यच्च महद्भवेत्
अदेयमथवाकार्यमकथ्यमपि यत्पुनः । त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये । पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते
सत्योवाच- दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम् । येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल
तवांगार्द्धहरा नित्यं गरुडोपरिगामिनी । इंद्रादिदेवतावासमगमं च त्वया सह
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम् । जन्मांतरे च किं शीला का चाहं कस्य कन्यका
श्रीकृष्ण उवाच- शृणुष्वैकमनाः कांते यत्त्वं वै पूर्वजन्मनि । पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः । आत्रेयो देवशर्मेति वेदवेदांगपारगः
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः । सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता । अपुत्रः स स्वशिष्याय चंद्र नाम्ने ददौ सुताम्
तमेव पुत्रवन्मेने स च तं पितृवद्वशी । तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः । तौ ततो राक्षसं घोरमायांतं समपश्यताम्
भयविह्वलसर्वांगावसमर्थौ पलायितुम् । निहतौ रक्षसा तेन कृतांतसमरूपिणा
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः । वैकुंठभवनं नीतौ मद्गणैर्मत्समीपगैः
यावज्जीवंतु यत्ताभ्यां सूर्यपूजादिकं कृतम् । तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम्
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । मामेव प्राप्नुवंतीह वर्षांभः सागरं यथा
एकोऽहं पंचधा जातः क्रीडयन्नामभिः किल । देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ । मत्तुल्यरूपौ मम सन्निधानगौ दिव्यांगना चंदनभोगभोगिनौ
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः
श्रीकृष्ण उवाच- ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ । पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत्
गुणवत्युवाच- हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना । बालाहं किं करोम्यद्य ह्यनाथा भवता विना
को नु मामास्थितां गेहे भोजनाच्छादनादिभिः । अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम्
हतभाग्या गतसुखा हतेशा हतजीविता । शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा
श्रीकृष्ण उवाच- एवं बहुविलप्याथ कुररीव भृशातुरा । पपात भूमौ विकला रंभा वातहता यथा
चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु । निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत
साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् । तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम्
तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम् । विष्णुभक्तिपरा शांता सत्यशौचा जितेंद्रिया
व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम् । एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च