सा प्रदीप्ताग्निपवना नारायणपरायणा। सासमुद्रौघसदृशी दीप्यमाना महाचमूः1.41.
रराजास्त्रवती भीमा यक्षगंधर्वशालिनी। तयोश्चम्वोस्तदानीं तु बभूव स समागमः
द्यावापृथिव्योस्संयोगो यथा स्याद्युगपर्यये। तद्युद्धमभवद्घोरं देवदानवसंकुलं
क्षमापराक्रमपरं सदर्पविनयस्यदं। निश्चक्रमुर्बलाभ्यां तु भीमाभ्यां च सुराऽसुराः
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः। ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः। समाजघ्नुस्तथा भेरीः शंखान्दध्मुरनेकशः
ब्रह्मांडं च भुवं चैव दिशश्च समपूरयन्। ज्याघाततलनिर्घोष धनुषां कूजितानि च
दुंदुभीनां च निर्ह्रादो दैत्यमंतर्दधुः स्वनम्। तेऽन्योन्यमभिसंपेतुर्यातयंतः परस्परम्
बभंजुर्बाहुभिर्बाहु युद्धमन्ये युयुत्सवः। देवानामशनीर्घोराः परिघांश्चोत्तमायुधान्
निस्त्रिंशान्ससृजुः संख्ये गदागुर्वीश्च दानवाः। गदानिपातैर्भग्नांगा बाणैश्च शकलीकृताः
परिपेतुर्भृशं केचित्पुनः केचित्तु जघ्निरे। ततो रथैश्च तुरगैर्विमानैश्च पदातिभिः
समीयुस्तेतिसंरब्धा रोषादन्योन्यमाहवे। संवर्त्तमानास्समरे संदष्टौष्टपुटाननाः
रथा रथैर्नियुध्यंते पादाताश्च पदातिभिः। तेषां रथानां तुमुलः सशब्दः शब्दवाहिनाम्
नभो निदद्ध्वानयथा नभस्ये जलदस्वनैः। बभंजिरे रथान्केचित्केचित्संमृदिता रथैः
संबाधमन्ये संप्राप्ता न शेकुश्चलितुं रथाः। अन्योन्य मध्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः
संह्रादमाणास्सबला जघ्नुस्तत्रासि चर्मिणः। अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हतायुधि
क्षरज्जलानां सदृशा जलदानां समागताः। अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ
एतस्मिन्नंतरे क्रुद्धः कालनेमिस्स दानवः। अवर्धत समुद्रौघैः पूर्यमाण इवांबुदः
तस्य विद्युल्लतापीडाः प्रदीप्ताशनिवर्षिणः। गात्रैर्नगगिरिप्रख्यैर्विनिपेतुर्बलाहकाः
क्रोधान्निश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः। साग्निस्फुलिंगाः प्रतता मुखान्निश्चेरुरर्चिषः
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः। पर्वतादिव निष्क्रांताः पंचास्या इव पन्नगाः
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि। दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव
सोनिलोद्भूतवसनस्तस्थौ संग्रामलालसः। संध्यातपग्रस्तशिलः साक्षान्मेरुरिवाचलः
ऊरुवेगप्रमथितैः शृंगशैलाग्रपादपैः। अपातयद्देवगणान्वज्रेणेव महागिरीन्
बाहुभिश्च सनिस्त्रिंशैश्छिन्नभिन्नशिरोरुहाः। न शेकुश्चलितुं देवाः कालनेमिहता युधि
मुष्टिभिर्निहताः केचित्केचिच्च द्विदलीकृताः। यक्षगंधर्वपतगाः समहोरगकिन्नराः
तेन वित्रासिताः पेतुः समरे कालनेमिना। न शेकुर्यत्नवंतोपि यत्नं कर्तुं विचेतसः
तेन शक्रः सहस्राक्षोऽस्पंदितः शरबंधनैः। निष्प्रयत्नः कृतः संख्ये चलितुं न शशाक ह
निर्जलांभोदसदृशो निर्जलार्णवसप्रभः। निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे
रणे वैश्रवणस्तेन परीतः कालरूपिणा। विलपन्लोकपालेशस्त्याजितो धनदः क्रियां