दानवाः कृतिनो जग्मुः कालनेमिनमुद्धतम्। ते गदाभिस्सुगुर्वीभिश्चक्रैरथपरश्वधैः
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः। अश्मभिश्चास्त्रसदृशैस्तथा शैलैश्च दारुणैः
पट्टिशैर्भिंडिपालैश्च परिघैश्चोत्तमायसैः। घातिनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च
युगैर्यंत्रैश्च निर्मुक्तैर्लांगलैरुग्रताडितैः। दोर्भिरायतमानैश्च पाशैश्च परिघादिभिः
भुजंगवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः। वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः। दैत्यैः संदीप्यमानैश्च प्रगृहीतशरासनैः
ततः पुरस्कृत्य तदा कालनेमिनमाहवे। सा दीप्तशस्त्रप्रवरा दैत्यानां रुरुचे चमूः
यैर्निमीलितसर्वांगा वनालीवांबुदागमे। देवतानामपि चमूर्मुमुदे शक्रपालिता
उपेता शिशिरोष्णाभ्यां तेजोभ्यां चंद्रसूर्ययोः। वायुवेगवती सौम्या तारागणपताकिनी
तोयदा बद्धवसना ग्रहनक्षत्रहासिनी। यमेंद्रधनदैर्गुप्ता वरुणेन च धीमता
सा प्रदीप्ताग्निपवना नारायणपरायणा। सासमुद्रौघसदृशी दीप्यमाना महाचमूः1.41.
रराजास्त्रवती भीमा यक्षगंधर्वशालिनी। तयोश्चम्वोस्तदानीं तु बभूव स समागमः
द्यावापृथिव्योस्संयोगो यथा स्याद्युगपर्यये। तद्युद्धमभवद्घोरं देवदानवसंकुलं
क्षमापराक्रमपरं सदर्पविनयस्यदं। निश्चक्रमुर्बलाभ्यां तु भीमाभ्यां च सुराऽसुराः
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः। ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः। समाजघ्नुस्तथा भेरीः शंखान्दध्मुरनेकशः
ब्रह्मांडं च भुवं चैव दिशश्च समपूरयन्। ज्याघाततलनिर्घोष धनुषां कूजितानि च
दुंदुभीनां च निर्ह्रादो दैत्यमंतर्दधुः स्वनम्। तेऽन्योन्यमभिसंपेतुर्यातयंतः परस्परम्
बभंजुर्बाहुभिर्बाहु युद्धमन्ये युयुत्सवः। देवानामशनीर्घोराः परिघांश्चोत्तमायुधान्
निस्त्रिंशान्ससृजुः संख्ये गदागुर्वीश्च दानवाः। गदानिपातैर्भग्नांगा बाणैश्च शकलीकृताः
परिपेतुर्भृशं केचित्पुनः केचित्तु जघ्निरे। ततो रथैश्च तुरगैर्विमानैश्च पदातिभिः
समीयुस्तेतिसंरब्धा रोषादन्योन्यमाहवे। संवर्त्तमानास्समरे संदष्टौष्टपुटाननाः
रथा रथैर्नियुध्यंते पादाताश्च पदातिभिः। तेषां रथानां तुमुलः सशब्दः शब्दवाहिनाम्
नभो निदद्ध्वानयथा नभस्ये जलदस्वनैः। बभंजिरे रथान्केचित्केचित्संमृदिता रथैः
संबाधमन्ये संप्राप्ता न शेकुश्चलितुं रथाः। अन्योन्य मध्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः
संह्रादमाणास्सबला जघ्नुस्तत्रासि चर्मिणः। अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हतायुधि
क्षरज्जलानां सदृशा जलदानां समागताः। अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ
एतस्मिन्नंतरे क्रुद्धः कालनेमिस्स दानवः। अवर्धत समुद्रौघैः पूर्यमाण इवांबुदः
तस्य विद्युल्लतापीडाः प्रदीप्ताशनिवर्षिणः। गात्रैर्नगगिरिप्रख्यैर्विनिपेतुर्बलाहकाः
क्रोधान्निश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः। साग्निस्फुलिंगाः प्रतता मुखान्निश्चेरुरर्चिषः