दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मविस्तरे। अपावृते चंद्रपथे स्वस्थानस्थे दिवाकरे
प्रवृत्तिस्थेषु भूतेषु नृषु चारित्रवत्सु च। अभिन्नबंधने मृत्यौ हूयमाने हुताशने
यज्ञशोभिषु देवेषु स्वर्गमार्गं दिशत्सु च। लोकपालेषु सर्वेषु दिक्षु संधानवर्तिषु
भावे तपसि सिद्धानामभावे पापकर्मणाम्। देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति
त्रिपादविग्रहे धर्मेऽधर्मे पादपरिग्रहे। अपावृत्ते महाद्वारे वर्तमाने च सत्पथे
लोकेषु धर्मवृत्तेषु प्रवृत्तेष्वाश्रमेषु च। प्रजारक्षणयुक्तेषु राजमानेषु राजसु
प्रशांतेषु च लोकेषु शांते तमसि दानवे। अग्निमारुतयोस्तस्मिन्वृत्ते संग्रामकर्मणि
तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः। तीव्रं दैत्यभयं श्रुत्वा मारुताग्निकृतं महत्
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत। भास्कराकारमुकुटः शिंजिताभरणांगदः
मंदराद्रिप्रतीकाशो महारजतसंवृतः। शतप्रहरणोदग्रः शतबाहुः शताननः
शतशीर्षः स्थितः श्रीमान्शतशृंग इवाचलः। कक्षे महति संवृद्धो निदाघ इव पावकः
धूम्रकेशो हरिश्मश्रुर्दंतुरो विकटाननः। त्रैलोक्यांतरविस्तारं धारयन्विपुलं वपुः
बाहुभिस्तुलयन्व्योम क्षिपन्पद्भ्यां महीधरान्। ईरयन्मुखनिःश्वासैर्वृष्टिकारान्बलाहकान्
तिर्यगायतरक्ताक्षं मंदरोदग्रवर्चसाम्। दिधक्षंतमिवायांतं सर्वान्देवगणान्मृधे
तर्जयंतं सुरगणांश्छादयंतं दिशो दश। संवर्तकाले हृषितं दृष्टं मृत्युमिवोत्थितम्
सुतलेनोच्छ्रयवता विपुलांगुलिपर्वणा। लंबाभरणपूर्णेन किंचिच्चलितकर्मणा
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता। दानवान्देवनिहतान्ब्रुवन्तं तिष्ठतेति च
तं कालनेमिं समरे द्विषतां कालनेमिनम्। वीक्षंते स्म सुराः सर्वे भयविह्वललोचनाः
तं वीक्षंते स्म भूतानि ग्रसंतं कालनेमिनम्। त्रिविक्रमं विक्रमं तं नारायणमिवापरम्
सोभ्युच्छ्रयं पुनः प्राप्तो मारुताघूर्णितांबरः। प्रक्रामदसुरो योद्धुं त्रासयन्सर्वदेवताः
समेयिवान्सुरेंद्रेण परिष्वक्तो भ्रमन्रणे। कालनेमिर्बभौ दैत्यः सविष्णुरिव मंदरः
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः। कालनेमिनमायांतं दृष्ट्वा कालमिवापरम्
दानवाननुपिप्रीषुः कालनेमिर्महासुरः। व्यवर्धत महातेजास्तपांते जलदो यथा
तं त्रैलोक्यांतरगतं दृष्ट्वा ते दानवेश्वराः। उत्तस्थुरपरिश्रांताः पीत्वेवामृतमुत्तमम्
ते वीतभयसंत्रासा मयतारपुरोगमाः। तारकामयसंग्रामे सततं जितकाशिनः
रेजुरायोधनगता दानवा युद्धकांक्षिणः। मंत्रमभ्यसतां तेषां व्यूहं च परिधावताम्
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम्। ये तु तत्र मयस्यासन्मुख्या युद्धपुरस्सराः
ते तु सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः। मयस्तारो वराहश्च हयग्रीवश्च दानवः
विप्रचित्तिसुतः श्वेतः खरलंबावुभावपि। अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च
सुर्भानुश्चामरप्रख्यश्चक्रयोधी महासुरः। एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः