अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः। ओषधीशः क्रियायोनिरपां योनिरनुष्णगुः
शीतांशुरमृताधारश्चपलः श्वेतवाहनः। त्वं कांतिः कांतवपुषां त्वं सोमः सोमपायिनाम्
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्। तद्गच्छ त्वं महासेन वरुणेन वरूथिना
शमयस्वासुरीं मायां यया दह्यामहे रणे। सोम उवाच। यन्मां वदसि युद्धार्थं देवराजवरप्रद
एष वर्षामि शिशिरं दैत्यमायापकर्षणं। एतान्मे शीतनिर्दग्धान्पश्यस्व हिमवेष्टितान्
तथा हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः। वेष्टयंति च तान्दैत्यान्वायुर्मेघगणानिव
तौ पाशशीतांशुधरौ वरुणेंदू महाबलौ। जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान्
द्वावंबुनाथौ समरे तौ पाशहिमयोधिनौ। मृधे चेरतुरंभोभिः क्षुब्धाविव महार्णवौ
ताभ्यामापूरितं सर्वं तद्दानवबलं महत्। जगत्संवर्त्तकांभोदैः प्रवर्षैरिव संवृतं
तावुद्यतावंबुनाथौ शशांकवरुणावुभौ। शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां
शीतांशुजालनिर्दग्धाः पाशैश्चास्कंदिता रणे। न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः
शीतांशु निहतास्ते तु दैत्यास्सर्वे निपातिताः। हिमप्लावित सर्वांगानिरूष्माण इवाग्नयः
तेषां तु दिवि दैत्यानां निपतंति शुभानि वै। विमानानि विचित्राणि निपतंत्युत्पतंति च
तान्पाशहस्तग्रथितान्छादितान्शीतरश्मिभिः। मयो ददर्श मायावी दानवान्दिवि दानवः
सशैलजालां विततां खड्गपट्टसहासिनीम्। पादपोत्करकूटस्थां कंदराकीर्णकाननां
सिंहव्याघ्रगणाकीर्णां नदद्भिर्देवयूथपैः। ईहामृगगणाकीर्णां पवनाघूर्णितद्द्रुमाम्
निर्मितां स्वेन पुत्रेण कूजंतीं दिविकामगां। प्रथितां पार्वतीं मायां ससृजे स समंततः
सासिशब्दैश्शिलावर्षैः संपतद्भिश्च पादपैः। जघान देवसंघांस्ते दानवानभ्यजीवयत्
नैशाकरी वारुणी च माये अंतर्हिते तदा। अभवद्घोरसंचारा पृथिवी पर्वतैरिव
न चारुद्धो द्रुमगणैर्देवो दृश्यत कश्चन। तदपध्वस्तधनुषं भग्नप्रहरणाविलम्
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरं। स हि युद्धगतः श्रीमानीशो न स्म व्यकंपत1.41.
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः। कालज्ञः कालमेघाभः समीक्षन्कालमाहवे
देवासुरविमर्दं च द्रष्टुकामस्तदा हरिः। ततो भगवतादिष्टौ रणे पावकमारुतौ
चोदितौ विष्णुवाक्येन ततो मायां व्यकर्षतां। ताभ्यामुद्भ्रांतवेगाभ्यां प्रबुद्धाभ्यां महाहवे
दग्धा सा पार्वती माया भस्मीभूता ननाश ह। सोनिलोनलसंयुक्तस्सोनलश्चानिलाकुलः
दैत्यसेनां ददहतुर्युगांतेष्विव मूर्च्छितौ। वायुः प्रजवितस्तत्र पश्चादग्निश्च मारुतात्
चेरतुर्दानवानीके क्रीडंतावनलानिलौ। भस्मीभूतेषु भूतेषु प्रपतत्सूत्पतत्सु च
दानवानां विमानेषु निपतत्सु समंततः। वातस्कंधापविद्धेषु कृतकर्मणि पावके
मायावधे प्रवृत्ते तु स्तूयमाने गदाधरे। निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबंधने
प्रहृष्टेषु च देवेषु साधुसाध्विति जल्पिषु। जये दशशताक्षस्य दैत्यानां च पराजये