इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः । प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः
सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम् । नारदायैव सा प्रादात्तोलयित्वा विधानतः । सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ
सूत उवाच- श्रियःपतिमथामंत्र्य गते देवर्षिसत्तमे । हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत्
सत्यभामोवाच- धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे । मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम
यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम् । षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव
यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः । यथोक्तविधिना सम्यङ्नारदाय समर्पितः
यद्वार्तामपि जानंति भूमिसंस्थान जंतवः । सोऽयं कल्पद्रुमो गेहे मम तिष्ठति सांप्रतम्
त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा । अतोऽहं प्रष्टुमिच्छामि किंचित्त्वां मधुसूदन
यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात् । श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः
यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित् । सूत उवाच- इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः
सत्या करे करं कृत्वागमत्कल्पतरोस्तलम् । निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः
प्रहस्य सत्यामामंत्र्य प्रोवाच जगतांपतिः । तत्प्रीति परितोषार्थं लसत्पुलकितांगजः
कृष्ण उवाच-। न मे त्वत्तः प्रियतमा काचिदन्या नितंबिनी । षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि
त्वदर्थं देवराजेन विरोधो दैवतैः सह । त्वया यत्प्रार्थितं कांते शृणु यच्च महद्भवेत्
अदेयमथवाकार्यमकथ्यमपि यत्पुनः । त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये । पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते
सत्योवाच- दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम् । येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल
तवांगार्द्धहरा नित्यं गरुडोपरिगामिनी । इंद्रादिदेवतावासमगमं च त्वया सह
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम् । जन्मांतरे च किं शीला का चाहं कस्य कन्यका
श्रीकृष्ण उवाच- शृणुष्वैकमनाः कांते यत्त्वं वै पूर्वजन्मनि । पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः । आत्रेयो देवशर्मेति वेदवेदांगपारगः
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः । सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता । अपुत्रः स स्वशिष्याय चंद्र नाम्ने ददौ सुताम्
तमेव पुत्रवन्मेने स च तं पितृवद्वशी । तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः । तौ ततो राक्षसं घोरमायांतं समपश्यताम्
भयविह्वलसर्वांगावसमर्थौ पलायितुम् । निहतौ रक्षसा तेन कृतांतसमरूपिणा
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः । वैकुंठभवनं नीतौ मद्गणैर्मत्समीपगैः
यावज्जीवंतु यत्ताभ्यां सूर्यपूजादिकं कृतम् । तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम्
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः । मामेव प्राप्नुवंतीह वर्षांभः सागरं यथा
एकोऽहं पंचधा जातः क्रीडयन्नामभिः किल । देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ । मत्तुल्यरूपौ मम सन्निधानगौ दिव्यांगना चंदनभोगभोगिनौ