एवमस्त्विति तं सोग्निः संवृतज्वालमंडलः। प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुम्
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः। और्वस्याग्नेः प्रभावज्ञाः स्वांस्वां गतिमुपागताः
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्। उर्वं प्रणतसर्वांगो वाक्यमेतदुवाच ह
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्। तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः
अहं तु तव पुत्रस्य तव चैव महाव्रत। भृत्य इत्यवगंतव्यः श्लाघ्यस्त्वमिह कर्मणा
तन्मां पश्य समापन्नं तवैवाराधने रतम्। यदि सीदेन्मुनिश्रेष्ठ तवै वस्यात्पराजयः
उर्व उवाच। धन्योस्म्यनुगृहीतोस्मि यस्य तेऽहं गुरुर्मतः। नास्ति ते तपसानेन भयं चैवेह सुव्रत
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्। निरिंधिनामग्निमयीं दुःस्पर्शां पावकैरपि
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे। रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति
वरुण उवाच। एषा दुर्विषहा माया देवैरपि दुरासदा। और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना
तस्मिंस्तु व्यथिते दैत्ये निर्वीर्यैषा न संशयः। शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा
यद्येषा प्रतिहंतव्या कर्तव्यो भगवान्सुखी। दीयतां मे सखो शक्र तोययोनिर्निशाकरः
तेनाहं सहसं गम्य यादोभिश्च समावृतः। मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः
एवमस्त्वितिसंहृष्टः शक्रस्त्रिदशवर्धनः। संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्
गच्छ सोम सहायन्त्वं कुरु पाशधरस्य वै। असुराणां विनाशाय जयार्थं त्रिदिवौकसाम्
त्वं मतः प्रतिवीर्यश्च ज्योतिषामपि चेश्वरः। त्वन्मयान्सर्वलोकेषु रसान्वेदविदो विदुः
त्वया समो न लोकेस्मिन्विद्यते शिशिरायुधः। क्षयवृद्धीतवाव्यक्तेसागरेचैवचांबरे
प्रवर्तयस्यहोरात्रात्कालं संमोहयन्जगत्। लोकच्छायामयं लक्ष्म तवांकः शशविग्रहः
न विदुः सोम ते मायां ये च नक्षत्रयोनयः। त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरिस्थितः
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत्। शीतभानुर्हिमतनुर्ज्योतिषामधिपः शशी
अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः। ओषधीशः क्रियायोनिरपां योनिरनुष्णगुः
शीतांशुरमृताधारश्चपलः श्वेतवाहनः। त्वं कांतिः कांतवपुषां त्वं सोमः सोमपायिनाम्
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्। तद्गच्छ त्वं महासेन वरुणेन वरूथिना
शमयस्वासुरीं मायां यया दह्यामहे रणे। सोम उवाच। यन्मां वदसि युद्धार्थं देवराजवरप्रद
एष वर्षामि शिशिरं दैत्यमायापकर्षणं। एतान्मे शीतनिर्दग्धान्पश्यस्व हिमवेष्टितान्
तथा हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः। वेष्टयंति च तान्दैत्यान्वायुर्मेघगणानिव
तौ पाशशीतांशुधरौ वरुणेंदू महाबलौ। जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान्
द्वावंबुनाथौ समरे तौ पाशहिमयोधिनौ। मृधे चेरतुरंभोभिः क्षुब्धाविव महार्णवौ
ताभ्यामापूरितं सर्वं तद्दानवबलं महत्। जगत्संवर्त्तकांभोदैः प्रवर्षैरिव संवृतं
तावुद्यतावंबुनाथौ शशांकवरुणावुभौ। शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां