त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश। निर्दहन्सर्वभूतानि ववृधे सोंतकोपमः1.41.
एतस्मिन्नंतरे ब्रह्मा मुनिमुर्वं समागतः। उवाच वार्यतां पुत्रो जगतस्त्वं दयां कुरु
अस्यापत्पस्यते विप्र करिष्ये साह्यमुत्तमं। तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर
और्व उवाच। धन्योस्म्यनुगृहीतोस्मि यन्मे त्वं भगवन्शिशोः। मतिमेतां ददासीह परमात्मन्हिताय वै
प्रभातकाले संप्राप्ते कांक्षितव्ये समागमे। भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्
कुत्र चास्य निवासः स्याद्भोजनं तु किमात्मकम्। विधास्यतीह भगवान्वीर्यतुल्यं महौजसः
ब्रह्मोवाच। बडवामुखे च वसतिः समुद्रे वै भविष्यति। ममयोनिर्जलं विप्र तच्चामेयं व्रजत्वयं
तत्राऽयमास्ते नियतं पिबन्वारिमयं हविः। तद्वारिविस्तरं विप्र विसृजाम्यालयं च तम्
ततो युगांते भूतानामेष चाहं च पुत्रक। सहितो विचरिष्यावो निष्पुराणकराविह
एषोग्निरंतकाले तु सलिलाशी मया कृतः। दहनः सर्वभूतानां सदेवासुररक्षसाम्
एवमस्त्विति तं सोग्निः संवृतज्वालमंडलः। प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुम्
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः। और्वस्याग्नेः प्रभावज्ञाः स्वांस्वां गतिमुपागताः
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्। उर्वं प्रणतसर्वांगो वाक्यमेतदुवाच ह
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्। तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः
अहं तु तव पुत्रस्य तव चैव महाव्रत। भृत्य इत्यवगंतव्यः श्लाघ्यस्त्वमिह कर्मणा
तन्मां पश्य समापन्नं तवैवाराधने रतम्। यदि सीदेन्मुनिश्रेष्ठ तवै वस्यात्पराजयः
उर्व उवाच। धन्योस्म्यनुगृहीतोस्मि यस्य तेऽहं गुरुर्मतः। नास्ति ते तपसानेन भयं चैवेह सुव्रत
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्। निरिंधिनामग्निमयीं दुःस्पर्शां पावकैरपि
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे। रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति
वरुण उवाच। एषा दुर्विषहा माया देवैरपि दुरासदा। और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना
तस्मिंस्तु व्यथिते दैत्ये निर्वीर्यैषा न संशयः। शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा
यद्येषा प्रतिहंतव्या कर्तव्यो भगवान्सुखी। दीयतां मे सखो शक्र तोययोनिर्निशाकरः
तेनाहं सहसं गम्य यादोभिश्च समावृतः। मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः
एवमस्त्वितिसंहृष्टः शक्रस्त्रिदशवर्धनः। संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्
गच्छ सोम सहायन्त्वं कुरु पाशधरस्य वै। असुराणां विनाशाय जयार्थं त्रिदिवौकसाम्
त्वं मतः प्रतिवीर्यश्च ज्योतिषामपि चेश्वरः। त्वन्मयान्सर्वलोकेषु रसान्वेदविदो विदुः
त्वया समो न लोकेस्मिन्विद्यते शिशिरायुधः। क्षयवृद्धीतवाव्यक्तेसागरेचैवचांबरे
प्रवर्तयस्यहोरात्रात्कालं संमोहयन्जगत्। लोकच्छायामयं लक्ष्म तवांकः शशविग्रहः
न विदुः सोम ते मायां ये च नक्षत्रयोनयः। त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरिस्थितः
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत्। शीतभानुर्हिमतनुर्ज्योतिषामधिपः शशी