यथा हि विहितो धर्मो मुनीनां शाश्वतः पुरा। आर्षं हि केवलं कर्म वन्यमूलफलाशिनः
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः। ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्
जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः। अस्माकं च वने वृत्तिर्वनाश्रमनिवासिनां
अब्भक्षा वायुभक्षाश्च दंतोलूखलिनस्तथा। अश्मकुट्टादयो यत्र पंचाग्नितपसश्च ये
एते तपसि तिष्ठंतो व्रतैरपि सुदुश्चरैः। ब्रह्मचर्यं पुरस्कृत्य प्रार्थयंति परां गतिम्
ब्रह्मचर्याद्ब्रह्मणस्य ब्राह्मणत्वं विधीयते। एवमाहुः परे लोके ब्राह्मचर्यविदो जनाः
ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः। ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि ते स्थिताः
नास्ति योगं विना सिद्धिर्नास्ति योगं विना यशः। नास्ति लोके यशोमूलं ब्रह्मचर्यात्परंतपः
यो निगृह्येंद्रियग्रामं भूतग्रामं च पंचकम्। ब्रह्मचर्यं समाधत्ते किमतः परमं तपः
अयोगकेशधरणमसंकल्प व्रत क्रिया। अब्रह्मचर्या चर्या च त्रयं स्याद्दंभसंज्ञितं
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः। नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा
यद्यस्ति तपसो वीर्यं युष्माकं विजितात्मनाम्। सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा
मनसा निर्मिता योनिराधातव्या तपस्विभिः। नो दारयोगं बीजं च व्रतमुक्तं तपस्विनां
यदिदं लुप्तधर्माख्यं युष्माभिरिह निर्भयैः। व्याहृतं सद्भिरत्यर्थमसद्भिरिव संमतं
वपुर्दीप्तांतरात्मानमेष कृत्वा मनोमयं। दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहं
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति। प्राजापत्येन विधिना दिधक्षंतमिव प्रजाः
वरुण उवाच। उर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने। ममंथैकेन दर्भेण पुत्रस्य प्रसवारणिं
तस्योरुं सहसा भित्वा वरोऽसौ ह्यग्निरुत्थितः। जगतो दहनाकांक्षी पुत्रोग्निस्समपद्यत
उर्वस्योरुं विनिर्भिद्य और्वो नामांतकोऽनलः। दिधक्षुरिव लोकांस्त्रीन्जज्ञे परमकोपनः
उत्पद्यमानश्चोवाच पितरं दीनया गिरा। क्षुधा मे बाधते तात जगद्भक्षेत्यजस्व मां
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश। निर्दहन्सर्वभूतानि ववृधे सोंतकोपमः1.41.
एतस्मिन्नंतरे ब्रह्मा मुनिमुर्वं समागतः। उवाच वार्यतां पुत्रो जगतस्त्वं दयां कुरु
अस्यापत्पस्यते विप्र करिष्ये साह्यमुत्तमं। तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर
और्व उवाच। धन्योस्म्यनुगृहीतोस्मि यन्मे त्वं भगवन्शिशोः। मतिमेतां ददासीह परमात्मन्हिताय वै
प्रभातकाले संप्राप्ते कांक्षितव्ये समागमे। भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्
कुत्र चास्य निवासः स्याद्भोजनं तु किमात्मकम्। विधास्यतीह भगवान्वीर्यतुल्यं महौजसः
ब्रह्मोवाच। बडवामुखे च वसतिः समुद्रे वै भविष्यति। ममयोनिर्जलं विप्र तच्चामेयं व्रजत्वयं
तत्राऽयमास्ते नियतं पिबन्वारिमयं हविः। तद्वारिविस्तरं विप्र विसृजाम्यालयं च तम्
ततो युगांते भूतानामेष चाहं च पुत्रक। सहितो विचरिष्यावो निष्पुराणकराविह
एषोग्निरंतकाले तु सलिलाशी मया कृतः। दहनः सर्वभूतानां सदेवासुररक्षसाम्