दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यमाः। समीयुर्युध्यमाना वै पर्वता इव पर्वतैः1.41.
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ। धर्माधर्मसमायुक्तं दर्पेण विनयेन च
ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः। उत्पतद्भिश्च गगने सासिहस्तैः समंततः
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः। चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः
तद्युद्धमभवद्घोरं देवदानवसंकुलम्। जगतस्त्रासजननं युगसंवर्तकोपमम्
स्वहस्तमुक्तैः परिघैर्मुद्गरैश्चैव पर्वतैः। दानवास्समरे जघ्नुर्देवानिंद्रपुरोगमान्
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः। विषण्णवदना देवा जग्मुरार्तिं परां मृधे
ते चास्त्रशूलमथिताः परिघैर्भिन्नमस्तकाः। भिन्नोरस्का दितिसुतैः स्रवद्रक्ता रणे बहु
सूदिताः शरजालैश्च निर्यत्नाश्च शरैः कृताः। प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम्
उत्तंभितमिवाभाति निष्प्राण सदृशाकृति। बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्
दैत्यचापच्युतान्घोरांश्छित्वा वज्रेण तान्शरान्। शक्रो दैत्यबलं घोरं विवेश बहुलोचनः
स दैत्यप्रमुखान्सर्वान्हत्वा दैत्यबलं महत्। तामसेनास्त्रजालेन तमोभूतमथाकरोत्
तेऽन्योन्यं नान्वबुध्यंत दैत्यानां वाहनानि च। घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा
मायापाशैर्विमुक्तास्तु यत्नवंतः सुरोत्तमाः। शिरांसि दैत्यसंघानां तमोभूतान्यपातयन्
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा। पेतुस्ते दानवास्सद्यश्छिन्नपक्षा इवाद्रयः
तत्राभिभूतदैत्यैंद्रमंधकारमिवांतरं। दानवं देहसदनं तमोभूतमिवाभवत्
तथाऽसृजन्महामायां मयस्तां तामसीं दहन्। युगांतोद्योतजननीं सृष्टा मौर्वेण वह्निना
स ददाह च तां शाक्रीं माया मयविकल्पिता। दैत्याश्चादित्यवपुषा सद्य उत्तस्थुराहवे
मायां मौर्वीं समासाद्य दह्यमाना दिवौकसः। भेजिरे चंद्रविषयं शीतांशुसलिलह्रदम्
ते दह्यमाना और्वेण वह्निना नष्टचेतसः। शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः
संतप्ते मायया सैन्ये हन्यमाने च दानवैः। चोदितो देवराजेन वरुणो वाक्यमब्रवीत्
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम्। उर्वः स पूर्वं तेजस्वी सदृशो ब्रह्मणो गुणैः
तं तपंतमिवादित्यं तपसा जगदव्ययं। उपतस्थुर्मुनिगणा देवा देवर्षिभिः सह
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः। ॠषिं विज्ञापयामास पुरा परमतेजसम्
ऊचुर्ब्रह्मर्षयस्ते तु वचनं धर्मसंहितम्। ॠषिवंशेषु भगवंश्छिन्नमूलमिदं कुलं
एकस्त्वमनपत्यश्च गोत्रा याऽन्यो न विद्यते। कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम्। एकदेहानि तिष्ठंति विविक्तानि विना प्रजाः
एवंभूतेषु सर्वेषु पुत्रैर्मे नास्ति कारणम्। भवांश्च तापसश्रेष्ठः प्रजापति समद्युतिः
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना। समाधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुं
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः। जगर्ह तानृषिगणान्वचनं चेदमब्रवीत्