ववौ प्रव्यथयन्दैत्यान्प्रतिलोमं सतोयदः। मारुतो देवगंधर्वैर्विद्याधरगणैः सह
चिक्रीड रश्मिभिश्शुभ्रैर्निर्मुक्तैरिव पन्नगैः। सृजंतः सर्पपतयस्तीव्रं रोषमयं विषम्
शरभूता विलग्नाश्च चेरुर्व्यात्तानना दिवि। पर्वताश्च शिलाशृंगैः शतशाखैश्च पादपैः
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम्। यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः
युगांते कृष्णवर्त्मा च विश्वस्य जगतः प्रभुः। सर्वयोनिः समधुहा हव्यभुक्क्रतुसंस्थितः
भूम्यम्बुव्योमभूतात्मा श्यामः शांतिकरोरिहा। अविघ्नममरादीनां चक्रे चक्रगदाधरः
सव्येनालभ्य महतीं सर्वायुधविनाशिनीं। करेण कालीं वपुषा शत्रुकालप्रदां गदां
शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजः प्रभुः। दधारायुधजालानि शार्ङ्गादीनि महाबलः
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम्। भुजगेंद्रेण वदने निविष्टेन विराजितम्
अमृतारंभसंयुक्तं मंदराद्रिमिवोच्छितम्। देवासुरविमर्देषु बहुशो दृष्टविक्रमम्
महेंद्रेणामृतस्यार्थे वज्रेण कृतलक्षणम्। विचित्रपत्रवसनं धातुमंतमिवाचलम्
स्फीतक्रोधावलंबेन शीतांशुसमतेजसा। भोगिभोगावसक्तेन मणिरत्नेन भास्वता
पक्षाभ्यां चारुपत्राभ्यामावृतं दिवि लीलया। युगांते सेंद्रचापाभ्यां तोयदाभ्यामिवांबरम्
नीललोहितपीताभिः पताकाभिरलंकृतम्। अरुणावरजं श्रीमानारुह्य समरे प्रभुः
सुवर्णवर्णवपुषं सुपर्णं खेचरोत्तमम्। तमन्वयुः सुरगणा मुनयश्च समाहिताः
गीर्भिः परममंत्राभिस्तुष्टुवुश्च गदाधरम्। तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम्
वारिराजपरिक्षिप्तं देवराजविराजितम्। पवनाबद्धनिर्घोषं संप्रदीप्त हुताशनम्
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसावृतम्। बलं बलवदुद्रिक्ते युद्धाय समवर्तत
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत। स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तथा। सुराणामसुराणां च परस्परजयैषिणाम्
दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यमाः। समीयुर्युध्यमाना वै पर्वता इव पर्वतैः1.41.
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ। धर्माधर्मसमायुक्तं दर्पेण विनयेन च
ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः। उत्पतद्भिश्च गगने सासिहस्तैः समंततः
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः। चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः
तद्युद्धमभवद्घोरं देवदानवसंकुलम्। जगतस्त्रासजननं युगसंवर्तकोपमम्
स्वहस्तमुक्तैः परिघैर्मुद्गरैश्चैव पर्वतैः। दानवास्समरे जघ्नुर्देवानिंद्रपुरोगमान्
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः। विषण्णवदना देवा जग्मुरार्तिं परां मृधे
ते चास्त्रशूलमथिताः परिघैर्भिन्नमस्तकाः। भिन्नोरस्का दितिसुतैः स्रवद्रक्ता रणे बहु
सूदिताः शरजालैश्च निर्यत्नाश्च शरैः कृताः। प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम्
उत्तंभितमिवाभाति निष्प्राण सदृशाकृति। बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्