यमस्तु दंडमुद्यम्य कालयुक्तं च मुद्गरं। तस्थौ सुरगणानीके दैत्यानां चैव दर्शयन्
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः। शंखमुक्तांगदधरो बिभ्रत्तोयमयं वपुः
कालपाशान्समाविध्य हयैः शशिकरोपमैः। वाय्वीरितजलाकारैः कुर्वन्लीलाः सहस्रशः
पांडुरोद्धूतवसनः प्रवालरुचिरांगदः। मणिश्यामोत्तमवपुर्हारकेणार्चितोदरः
वरुणः पाशधृङ्मध्ये देवानीकस्य तस्थिवान्। युद्धवेलामभिलषन्भिन्नवेल इवार्णवः
यक्षराक्षससैन्येन गुह्यकानां गणैरपि। युक्तश्च शंखपद्माभ्यां निधीनामधिपः प्रभुः
राजराजेश्वरःश्रीमान्गदापाणिरदृश्यत। विमानयोधी धनदो विमाने पुष्पके स्थितः
स राजराजः शुशुभे यक्षेशो नरवाहनः। पूर्वपक्षे सहस्राक्षः पितृराजश्च दक्षिणे
वरुणः पश्चिमे पक्ष उत्तरे नरवाहनः। चतुःपक्षाश्च चत्त्वारो लोकपाला महाबलाः
आत्मदिक्षुचरंतश्चतस्यदेवबलस्यते। सूर्यः सप्ताश्वयुक्तेन रथेनानिलगामिना
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः। उदयास्तमयौ चक्रे मेरुपर्यन्तगामिना
त्रिदिव द्वारचक्रेण तपसा लोकमव्ययम्। सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा
चचार मध्ये देवानां द्वादशात्मा दिवाकरः। सोमः श्वेतहयो भाति स्यंदने शीतरश्मिमान्
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत्। तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्
शशच्छायांकिततनुं नैशस्य तमसः क्षयम्। ज्योतिषामीश्वरं व्योम्नि रसदं प्रभुमव्ययम्
ओषधीनां पवित्राणां निधानममृतस्य च। जगतः परमं भागं सौम्यं सर्वमयं रसम्
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम्। यः प्राणः सर्वभूतानां पंचधा भिद्यते नृषु
सप्तस्कंधगतो लोकांस्त्रीन्दधार चकार च। यमाहुरग्निकर्त्तारं सर्वप्रभवमीश्वरम्
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते। यं वदंति चलं भूतं यं वदंत्यशरीरिणम्
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम्। स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमं सतोयदः। मारुतो देवगंधर्वैर्विद्याधरगणैः सह
चिक्रीड रश्मिभिश्शुभ्रैर्निर्मुक्तैरिव पन्नगैः। सृजंतः सर्पपतयस्तीव्रं रोषमयं विषम्
शरभूता विलग्नाश्च चेरुर्व्यात्तानना दिवि। पर्वताश्च शिलाशृंगैः शतशाखैश्च पादपैः
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम्। यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः
युगांते कृष्णवर्त्मा च विश्वस्य जगतः प्रभुः। सर्वयोनिः समधुहा हव्यभुक्क्रतुसंस्थितः
भूम्यम्बुव्योमभूतात्मा श्यामः शांतिकरोरिहा। अविघ्नममरादीनां चक्रे चक्रगदाधरः
सव्येनालभ्य महतीं सर्वायुधविनाशिनीं। करेण कालीं वपुषा शत्रुकालप्रदां गदां
शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजः प्रभुः। दधारायुधजालानि शार्ङ्गादीनि महाबलः
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम्। भुजगेंद्रेण वदने निविष्टेन विराजितम्
अमृतारंभसंयुक्तं मंदराद्रिमिवोच्छितम्। देवासुरविमर्देषु बहुशो दृष्टविक्रमम्