शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः। उद्यतं द्विषतां हेतोर्द्वितीयमिव मंदरम्॥१.४०.
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्। विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः॥१.४०.
प्रमुखे तस्य सैन्यस्य दीप्तशृंग इवाचलः। युक्तं हयसहस्रेण हयग्रीवस्तु दानवः॥१.४०.
व्यूहितं दानवव्यूहं परिचक्राम वीर्यवान्। विप्रचित्तिसुतः श्वेतः श्वेतकुंडलभूषणः॥१.४०.
स्यंदनं वाहयामास परानीकस्य मर्दनः। व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्॥१.४०.
स चाहवमुखे तस्थौ सप्ररोह इवाचलः। खरस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम्॥१.४०.
स्फुरद्दंतौष्ठनयनः संग्रामं सोभ्यकांक्षत। त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः॥१.४०.
दिव्यव्यूहप्रतीकाशा युद्धायाभिमुखः स्थितः। अरिष्टो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः॥१.४०.
युद्धायाभिमुखस्तस्थौ धराधरविकंपनः। किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः॥१.४०.
अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः। लंबस्तु नवमेघाभः प्रलंबांबरभूषणः॥१.४०.
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्। वसुंधराभस्तदनु दशनौष्ठेक्षणायुधः॥१.४०.
हसंस्तिष्ठति दैत्यानाम्मध्ये क्रूर महाग्रहः। अन्ये हयगतास्तत्र मत्तेभेंद्रगताः परे॥१.४०.
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे। केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः॥१.४०.
पत्तयश्चापरे दैत्या भीषणा विकृताननाः। एकपादास्त्वपादाश्च ननृतुर्युद्धकांक्षिणः॥१.४०.
आस्फोटयंतो बहवः स्वनंतश्च तथापरे। दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः॥१.४०.
ते गदापरिघैर्घोरैः शिलामुद्गरपाणयः। बाहुभिः परिघाकारैस्तर्जयंति स्म देवताः॥१.४०.
प्रासैः खड्गैश्च पाशैश्च तोमरांकुशपट्टिशैः। चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः॥१.४०.
खड्गशैलैश्च शैलैश्च परिघैश्चोद्यतायुधैः। युक्तं बलाहकगणैः सर्वतः संवृतं नभः॥१.४०.
एवं तद्दानवं सैन्यं सर्वसत्वमदोत्कटम्। देवताभिमुखं तस्थौ मेघानीकमिवोदितम्॥१.४०.
रेजे च तद्दैत्यसहस्रगाढं वाय्वग्निशैलांबुदतोयकल्पम्। बलं बलौघाकुलमभ्युदीर्णं युयुत्सयोन्मत्तमिवा बभासे॥१.४०.
श्रुतस्ते दैत्यसैन्यस्य विस्तारः कुरुनंदन। सुराणामपि सैन्यस्य विस्तरं वैष्णवं शृणु॥१.४०.
पुलस्त्य उवाच। आदित्या वसवो रुद्रा अश्विनौ च महाबलौ। सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्
पुरुहूतश्च पुरतो लोकपालः सहस्रदृक्। ग्रामणीः सर्वदेवानामारुरोह वरद्विपम्
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरकेतनः। सुरारुचक्रचरणो हैमच्छत्रपरिष्कृतः
देवगंधर्वयक्षौघैरनुयातः सहस्रशः। दीप्तिमद्भिश्च स्वर्गस्थैर्ब्रह्मर्षिभिरभिष्टुतः
वज्रविस्फारितोद्भूतैर्विद्युदिंद्रायुधप्रभैः। युक्तं बलाहकगणैः पर्वतैरिव कामगैः
यमारूढः स भगवान्पर्येति सकलं जगत्। हविर्दानेषु गायंति विप्रा मखमुखेस्थिताः
स्वर्गसंग्रामयातेषु देवतूर्यनिनादिषु। सेंद्रं तमुपनृत्यंति शतशो ह्यप्सरोगणाः
केतुना नागराजेन राजमानो यथा रविः। युक्तो हयसहस्रेण मनोमारुतरंहसा
सम्यग्रथवरो भाति युक्तो मातलिना तदा। कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा