आकाशे तु स्थितो विष्णुरुत्तमं वपुराश्रितः। उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः॥१.४०.
शांतिं व्रजत भद्रं वो मा भैष्ट मरुतांगणाः। जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्॥१.४०.
ततोस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः। देवाः प्रीतिं पराजग्मुः प्राश्यामृतमिवोत्तमम्॥१.४०.
ततस्तमश्च संहृत्य विनेशुश्च बलाहकाः। प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश॥१.४०.
शुद्धप्रायाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणम्। न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिंधवः॥१.४०.
विरजा अभवन्मार्गा लोकाः स्वर्गादयस्त्रयः। यथार्थमूहुस्सरितश्चुक्षुभे न तथार्णवः॥१.४०.
आसन्छुभानीन्द्रियाणि नराणामंतरात्मसु। महर्षयो वीतशोका वेदानुच्चैरधीयत॥१.४०.
यज्ञेषु च हविः पाकं शिवमाप च पावकः। प्रवृत्तधर्मसंवृत्ता लोका मुदितमानसाः॥१.४०.
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः। ततो भयं विष्णुमुखाच्छ्रुत्वा दैतेयदानवाः॥१.४०.
उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च। मयस्तु कांचनमयं त्रिनल्वांतरमव्ययम्॥१.४०.
चतुश्चक्रं सुविपुलं सुकल्पितमहायुधम्। किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्॥१.४०.
रुचिरं रश्मिजालैश्च हैमजालैश्च शोभितम्। ईहामृगगणाकीर्णं पक्षिसंघविराजितम्॥१.४०.
दिव्यास्त्रशस्त्ररुचिरं पयोधरनिनादितम्। स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्॥१.४०.
गदापरिघसंपूर्णं मूर्तिमंतमिवार्णवम्। हेमकेयूरवलयं चंद्रमंडलकूबरम्॥१.४०.
सपताकध्वजोपेतं सादित्यमिव मंदरम्। गजेंद्राभोगवपुषं क्वचित्केसरवर्चसम्॥१.४०.
युक्तमृक्षसहस्रेण सुधारांबुदनादितम्। दीप्तमाकाशगं दिव्यं रथं पररथारुजम्॥१.४०.
अध्यतिष्ठद्रणाकांक्षी मेरुं दीप्तमिवांशुमान्। तारस्तु क्रोशविस्तारमायामे च तथाविधम्॥१.४०.
शैलकूबरसंकाशं नीलांजनचयोपमम्। काललोहस्य रत्नानां समूहाबद्धकूबरम्॥१.४०.
तिमिरोद्गारकिरणं गर्जंतमिव तोयदम्। लोहजालेन महता सगवाक्षेण दंशितम्॥१.४०.
आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः। प्रासैः पाशैश्च विततैरसंयुक्तैश्च कण्टकैः॥१.४०.
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः। उद्यतं द्विषतां हेतोर्द्वितीयमिव मंदरम्॥१.४०.
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्। विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः॥१.४०.
प्रमुखे तस्य सैन्यस्य दीप्तशृंग इवाचलः। युक्तं हयसहस्रेण हयग्रीवस्तु दानवः॥१.४०.
व्यूहितं दानवव्यूहं परिचक्राम वीर्यवान्। विप्रचित्तिसुतः श्वेतः श्वेतकुंडलभूषणः॥१.४०.
स्यंदनं वाहयामास परानीकस्य मर्दनः। व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्॥१.४०.
स चाहवमुखे तस्थौ सप्ररोह इवाचलः। खरस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम्॥१.४०.
स्फुरद्दंतौष्ठनयनः संग्रामं सोभ्यकांक्षत। त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः॥१.४०.
दिव्यव्यूहप्रतीकाशा युद्धायाभिमुखः स्थितः। अरिष्टो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः॥१.४०.
युद्धायाभिमुखस्तस्थौ धराधरविकंपनः। किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः॥१.४०.
अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः। लंबस्तु नवमेघाभः प्रलंबांबरभूषणः॥१.४०.