चंडविद्युद्गणोपेता घोरनिर्ह्रादकारिणः। अन्योन्यवेगाभिहताः प्रववुः सप्तमारुताः॥१.४०.
दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः। रवैस्सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम्॥१.४०.
पेतुरुल्कासहस्राणि निपेतुः खचराण्यपि। दैवानि च विमानानि प्रपतंत्युत्पतंति च॥१.४०.
चतुर्युगांतसमये लोकानां यद्भयं भवेत्। अरूपवति रूपाणि तस्मिन्नुत्पातलक्षणे॥१.४०.
तस्माद्दुष्प्रथितं सर्वं न प्राज्ञायत किंचन। तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश॥१.४०.
विवेश रूपिणी काली कालमेघावगुंठिता। द्यौर्नभात्यभिभूतार्का घोरेण तमसा वृता॥१.४०.
तां घनौघां सतिमिरां दोर्भ्यामाछिद्य स प्रभुः। वपुः स्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः॥१.४०.
बलाहकांजननिभं बलाहकतनूरुहम्। तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्॥१.४०.
दीप्तपीतांबरधरं तप्तकांचनभूषणम्। धूम्रांधकारवपुषं युगांताग्निमिवोत्थितम्॥१.४०.
वृत्तद्विगुणपीनां संकिरीटाच्छन्नमूर्धजम्। बभौ चामीकरप्रख्यैरायुधैरुपशोभितम्॥१.४०.
चंद्रार्ककिरणोद्योतं गिरिकूटमिवोच्छ्रितम्। नंदकानंदितकरं कौस्तुभोद्भासितोरसम्॥१.४०.
शक्तिचित्रफलोदग्रं शंखचक्रगदाधरम्। विष्णुशैलं क्षमाशीलं श्रीवत्सं शार्ङ्गपाणिनम्॥१.४०.
त्रिदशोदारफलदं स्वर्गस्त्रीचारुवल्लभम्। सर्वलोकमनःकांतं सर्वसत्वमनोहरम्॥१.४०.
मायाविशालविटपं तोयदौघसमप्रभम्। विद्याहंकारमानाढ्य महाभूतप्ररोहणम्॥१.४०.
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम्। दैत्यलोकमहास्कंधं मर्त्यलोकप्रकाशितम्॥१.४०.
सागराकारनिर्ह्रादं रसातलगलाश्रयम्। नागेंद्रपाशैर्विततं पक्षिजंतुसमन्वितम्॥१.४०.
शीलानाहार्यगंधाढ्यं सर्वलोकमहाद्रुमम्। अव्यक्तानंदसलिलं व्यक्ताहंकारफेनिलम्॥१.४०.
महाभूतकरौघौघं ग्रहनक्षत्रबुद्बुदम्। विमानवाहनैर्व्याप्तं तोयदाडम्बराकुलम्॥१.४०.
जंतुमत्स्यगणाकीर्णं शैलशंखकुलैर्युतम्। त्रैगुण्यविषयावर्तं सर्वलोकतिमिंगिलम्॥१.४०.
वीरवृक्षलतागुल्मं भुजगोत्सृष्टशैवलम्। द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्॥१.४०.
वस्वष्टपर्वतोपेतं त्रैलोक्यांभो महोदधिम्। संध्यासंध्योर्मिसलिलमापूर्णानिलशोभितम्॥१.४०.
दैत्ययक्षगणग्रामं रक्षोगणझषाकुलम्। पितामहमहावीर्यं स्वर्गस्त्रीरत्नसंकुलम्॥१.४०.
श्री कीर्ति कांतिलक्ष्मीभिर्नदीभिश्च समाकुलम्। कालयोगमहावर्षप्रलयोत्पत्तिवेगितम्॥१.४०.
सत्संयोगमहापारं नारायणमहार्णवम्। देवातिदेवं वरदं भक्तानां भक्तवत्सलम्॥१.४०.
अनुग्रहकरं देवं प्रशांतिकरणं शुभम्। हर्यश्वरथसंयुक्त सुपर्णध्वजशोभिते॥१.४०.
चंद्रार्कचक्ररचित उदाराक्षवृतांतरे। अनंतरश्मिसंयुक्ते दुर्दर्शे मेरुकूबरे॥१.४०.
तारकाचित्रकुसुमे ग्रहनक्षत्रबंधुरे। भयेष्वभयदे व्योम्नि देवदैत्यापराजिते॥१.४०.
हर्यश्वरथसंयुक्तमुक्ताशोभासमन्वितम्। ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे॥१.४०.
ते कृतांजलयः सर्वे देवा इंद्रपुरोगमाः। जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः॥१.४०.
एतेषां च गिरः श्रुत्वा स विष्णुर्देवदैवतः। मनश्चक्रे विनाशाय दानवानां महामृधे॥१.४०.