अग्निश्चक्षू रविर्ज्योतिः सावित्री मित्रमेव च। अमरं शरवृष्टिं च सुकर्षं च महत्तरम्॥१.४०.
विराजं चैव राजं च विश्वायुं सुमतिं तथा। अश्वगं चित्ररश्मिं च तथा च निषधं नृपं॥१.४०.
भूय एवं चात्मविधिं चारित्रं पादमात्रगं। बृहंतं वै बृहद्रूपं तथा चैव सनाभिगं॥१.४०.
मरुत्वती प्रजा जज्ञे ज्येष्ठां तं मरुतांगणं। अदितिः कश्यपाज्जज्ञे आदित्यान्द्वादशैव हि॥१.४०.
इंद्रो विष्णुर्भगस्त्वष्टा वरुणोंशोर्यमारविः। पूषा मित्रश्च वरदो धाता पर्जन्य एव हि॥१.४०.
इत्येते द्वादशादित्या वरिष्टास्त्रिदिवौकसां। आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ॥१.४०.
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यातिसंमतौ। दनुस्तु दानवान्जज्ञे दितिर्दैत्यान्व्यजायत॥१.४०.
काला तु कालकेयांस्तानसुरान्राक्षसांस्तथा। अनायुषायास्तनया व्याधयश्च महाबलाः॥१.४०.
सिंहिका ग्रहमाता च गंधर्वजननी मुनिः। प्राची त्वप्सरसां माता पुण्यानां भारतेतरा॥१.४०.
क्रोधा साः सर्वभूतानि पिशाचा सा च पार्थिव। जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते॥१.४०.
चतुष्पदानि सत्वानि एता गाश्चैव सौरभी। पुराणपुरुषश्चैव मायां विष्णुर्हरिः प्रभुः॥१.४०.
कथितस्तेनुपूर्वेण संस्तुतश्च महर्षिभिः। यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु चेत्पठेत॥१.४०.
अवाप्य लोकं स हि वीतरागः परत्र च स्वर्गफलानि भुंक्ते। चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्॥१.४०.
प्रसादयति यः कृष्णं तस्य कृष्णः प्रसीदति। राज्यं च लभते राजा निर्धनश्चोत्तमं धनम्॥१.४०.
क्षीणायुर्लभते चायुः पुत्रकामोथ संततिम्। यज्ञार्थिनस्तथा कामांस्तपांसि विविधानि च॥१.४०.
यं यं कामयते कामं तं तं लोकेश्वराल्लभेत्। सर्वं विहाय य इमं पठेद्वै पौष्करं हरेः॥१.४०.
प्रादुर्भावं नरश्रेष्ठ न तस्य ह्यशुभं भवेत्। एष पौष्करकोनाम प्रादुर्भावो महात्मनः॥१.४०.
कीर्तितस्तु महाराज व्यासश्रुतिनिदर्शनात्। विष्णुत्वं शृणु मे विष्णोर्हरित्वं च कृतेयुगे॥१.४०.
वैकुंठत्वं च देवेषु कृष्णत्वं मानुषेषु च। ईश्वरस्य हितस्यैषा कर्मणां गहना गतिः॥१.४०.
सांप्रतं भूतभव्यं च शृणु राजन्यथातथं। अव्यक्तो व्यक्तलिंगस्थो य एष भगवान्प्रभुः॥१.४०.
नारायणो ह्यनंतात्मा प्रभवाप्यय एव च। एष नारायणो भूत्वा हरिरासीत्सनातनः॥१.४०.
ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः। अदितेरपि पुत्रत्वमेत्यजः कुरुनंदन॥१.४०.
एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः। प्रसादनं तस्यविभोरदित्याः पुत्रकारणम्॥१.४०.
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्। ससर्जाथ सुरान्कल्पे ब्रह्माणं च प्रजापतीन्॥१.४०.
असृजन्मानसांस्तत्र ब्रह्मवंशाननुत्तमान्। तेभ्योभवन्महात्मभ्यः परंब्रह्म सनातनम्॥१.४०.
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तितं। कीर्त्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे॥१.४०.
वृत्ते वृत्रवधे भीष्म वर्तमाने कृतेयुगे। आसीत्त्रैलोक्यविख्यातः संग्रामस्तारकामयः॥१.४०.
यत्र ते दानवा घोराः सर्वे संग्रामदुर्जयाः। घ्नंति देवासुरान्सर्वान्सयक्षोरगराक्षसान्॥१.४०.
ते वध्यमाना विमुखाश्छिन्नप्रहरणा रणे। त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम्॥१.४०.
एतस्मिन्नंतरे मेघा निर्वाणांगारवर्चसः। सार्कचंद्रग्रहगणं च्छादयंतो नभस्तलम्॥१.४०.