तान्गृहीत्वा सुतांस्तस्य तौ गतावूर्जितां गतिं। नारायणश्च भगवान्कपिलश्च यतीश्वरः॥१.४०.
यं कालं ते गता ब्रह्म ब्रह्मा तं कालमेव च। तपोघोरतरं भूयः संश्रितः परमं पदं॥१.४०.
न च शक्तस्ततो ब्रह्मा प्रभुरेकस्तपश्चरन्। शरीरार्धात्ततो भार्यामुत्पादयति तच्छुभाम्॥१.४०.
आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः। विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥१.४०.
विश्वेशं प्रथमं तावन्महात्मा तपसात्मजम्। सर्वत्रसंहतं पुण्यं नाम्ना धर्मं स सृष्टवान्॥१.४०.
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं कतुम्। वसिष्ठं गौतमं चैव भृगुमंगिरसं मुनिं॥१.४०.
अत्यद्भुतास्स्वकृत्येन ज्ञेयास्ते तु महर्षयः। त्रयोदशगुणारंभा ये वंशास्तु महर्षिणां॥१.४०.
अदितिर्दितिर्दनुः काला अनायुः सिंहिका खसा। प्राची क्रोधा च सुरसा विनता कद्रुरेव च॥१.४०.
दक्षस्यापत्यमेतद्वै कन्या द्वादश पार्थिव। नक्षत्राणि च चंद्रस्य विंशतिस्सप्त चोर्जिताः॥१.४०.
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल। तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्वमन्यत॥१.४०.
नक्षत्राणि च सोमाय तथैवं दत्तवानृषिः। रोहिण्यादीनि सर्वाणि पुण्यानि कुरुनंदन॥१.४०.
लक्ष्मीस्सरस्वती संध्या विश्वेशा च महायशाः। देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा॥१.४०.
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव। दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा॥१.४०.
या रूपार्धवती पत्नी ब्रह्मणः कामरूपिणी। सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता॥१.४०.
ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः। लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम॥१.४०.
जज्ञे चैकादशसुतान्विपुलान्धर्मसंज्ञितान्। रक्तसंध्याभ्रसंकाशान्महतस्तिग्मतेजसः॥१.४०.
ते रुदंतो द्रवंतश्च गतवंतः पितामहम्। रोदनाद्द्रवणाच्चैव रुद्रा एवेति ते स्मृताः॥१.४०.
निर्हृतिश्चैव संध्यश्च तृतीयश्चाप्ययोनिजः। मृगव्याधः कपर्दी च महाविश्वेश्वरश्च यः॥१.४०.
अहिर्बुध्न्यश्च भगवान्कपाली चैव पिंगलः। सेनानीश्च महातेजा रुद्राश्चैकादश स्मृताः॥१.४०.
तस्यामेव सुरभ्यां च गावो जाताः सुराश्च ये। अजश्चैव तु हंसश्च तथैव नृपसत्तम॥१.४०.
ओषध्यः प्रवरायाश्च सुरभ्यास्तास्समुत्थिताः। धर्माल्लक्ष्मीस्तथाकामं साध्यान्साध्या व्यजायत॥१.४०.
भवं च प्रभवं चैव कृशाश्वं सुवहं तथा। अरुणं वरुणं चैव विश्वामित्र चल ध्रुवौ॥१.४०.
हविष्मंतं तनूजं च विधानाभिमतावपि। वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्॥१.४०.
सुपर्वाणं बृहत्कांतिं साध्या लोकनमस्कृतम्। वासवानुगता देवी जनयामास वै सुरान्॥१.४०.
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्। विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरं॥१.४०.
ततोनुरूपमायं च यमं तस्मादनंतरम्। सप्तमं च तथा वायुमष्टमं निर्हृतिं तथा॥१.४०.
धर्मस्यापत्यमेतद्वै सुरभ्यां तदजायत। विश्वेदेवाश्च विश्वायां धर्माज्जाता इति स्मृताः॥१.४०.
दक्षश्चैव महाबाहुः पुष्करस्तम एव च। चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ॥१.४०.
विश्वांतक वसुर्बालो निकुंभश्च महायशाः। रुरुदश्चातिसिद्धौजा भास्कर प्रमितद्युतिः॥१.४०.
विश्वान्देवान्देवमाता विश्वेषां जनयत्सुतान्। मरुत्वती मरुत्वतो देवानजनयत्सुतान्॥१.४०.