तं समाधाय गुणिनं सत्वं चास्मि समाश्रितः। यः परो योगयुक्तात्मा योक्षरः सत्वमेव च॥१.४०.
रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः। ततो भूतानि जायंते सात्विकानीतराणि च॥१.४०.
स एव युवयोर्नाशं वासुदेवः करिष्यति। स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ॥१.४०.
बाहू नारायणो ब्रह्म कृतवानात्ममायया। कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ॥१.४०.
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ। ततस्तावाहतुर्गत्वा वासुदेवं सनातनम्॥१.४०.
पद्मनाभं हृषीकेशं प्रणिपत्य नतावुभौ। जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्॥१.४०.
आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम्। अमोघदर्शनं सत्यं यतस्त्वां विद्व(?)शाश्वतम्॥१.४०.
ततस्त्वामभितो देव कांक्षावः प्रसमीक्षितुम्। अमोघदर्शनोसि त्वं नमस्ते समितिंजय॥१.४०.
श्रीभगवानुवाच। किमर्थं मामनुब्रूथ युवामसुरसत्तमौ। गतायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छथः॥१.४०.
मधुकैटभा ऊचतुः। यस्मिन्न कश्चिन्मृतवान्देव तस्मिन्वधं प्रभो। इच्छावः पुत्रतां चैव भवतः सुमहातपः॥१.४०.
श्रीभगवानुवाच। युवयोर्बाढमेतत्स्याद्भविष्ये कलिसंभवे। भविष्यथो न संदेहः सत्यमेतद्ब्रवीमि वाम्॥१.४०.
वरं प्रदायाथ महासुराभ्यां सनातनो विश्वधरः सुरोत्तमः। रजस्तमोजौ तु तदांजनोपमौ ममर्द तावूरुतलेऽमरप्रभुः॥१.४०.
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदांवरः। ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः॥१.४०.
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः। बभाषे स तु धर्मात्मा सहस्रांशुरिवांशुभिः॥१.४०.
अथान्यद्रूपमास्थाय प्रभुर्नरायणोव्ययः। आजगाम महातेजा योगाचार्यो महायशाः॥१.४०.
सांख्याचार्यश्च मतिमान्कपिलो ब्रह्मणां वरः। उभावपि महात्मानौ पूजितौ तत्र तत्परौ॥१.४०.
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्। परावरविशेषज्ञौ पूजितौ च महर्षिभिः॥१.४०.
ब्रह्म संपरिवेद्यं ते विशाल जगदास्थितौ। ग्रामणीस्सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः॥१.४०.
तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परम्। त्रीनिमान्कृतवान्लोकान्यथेयं ब्रह्मणः श्रुतिः॥१.४०.
पुत्रं स्वसंभवं चैकं समुत्पादितवान्भुवम्। तदाग्रे चागतस्तस्य ब्रह्ममानससंभवः॥१.४०.
उत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः। किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानिति॥१.४०.
ब्रह्मोवाच। यदेष कपिलो नाम ब्रह्मनारायणस्तथा। वदतो भवतस्त्वं तु तत्कुरुष्व महामते॥१.४०.
ब्रह्मणा स तथोक्तस्तौ प्राह भूप समुत्थितः। शुश्रूषुरस्मि युवयोः किं करोमि कृतांजलि॥१.४०.
श्रीभवगवानुवाच। यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तत्। यत्सत्यममृतं तत्तु परं पदमनुस्मर॥१.४०.
एतद्वचो निशम्यैवं स ययौ दिशमुत्तरां। गत्वा च तत्र स ब्रह्म अगमज्ज्ञानचक्षुषा॥१.४०.
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत्प्रभुः। संकल्पयित्वा मनसा तमेव च महामनाः॥१.४०.
ततः सोप्यब्रवीद्वाक्यं किं करोमि पितामह। पितामहसमा ज्ञातो ब्रह्माणं समुपस्थितः॥१.४०.
ब्राह्मणस्यामृतरसोनुभूतस्तेन वै ततः। प्राप्तः सपरमंस्थानं स तयोः पार्श्वमागतः॥१.४०.
तस्मिन्नपि गते सोथ तृतीयमसृजत्प्रभुः। मोक्षप्रवृत्तिकुशलं सुवर्नामयुतः प्रभुः॥१.४०.
सोपि तंधर्ममास्थाय तयोरेवागमद्गतिं। एवं पुत्रास्त्रयोप्येते गताः शंभोर्महात्मनः॥१.४०.