इत्येतैर्बहुभिर्मंत्रैः पूजनीयः प्रयत्नतः । श्रीनिवासो जगन्नाथो भक्तानां शमभीप्सकः
ततो दमनकमुष्टिं गृहीत्वा तत्र मूलमंत्रेण । श्रीश्रीविष्ण्वादिदेवेभ्यो दमनकं निवेदयेत् । ततो गंधादिभिर्महतीपूजागीतवाद्यनृत्यैश्च महोत्सवः कार्यः । देवाग्रेस्थापितः कलशोदकं देवस्य पादयोर्निक्षिप्य जलक्रीडा तस्मिन्दिने कर्त्तव्या । ततः स्वगुरुं वस्त्रालंकारद्रविणैः श्रद्धया प्रपूजयेत् । ततः स्वयं वैष्णवैर्बंधुभिः सह अश्नीयात्
महादेव उवाच- ततो दमनकमंजर्या यो वै विष्णुं प्रपूजयेत् । पूजिते वै जगन्नाथे ह्यहं वै पूजितः सदा
ब्रह्महा हेमहारी च मद्यपो मांसभक्षकः । मुच्यते पातकाद्देवि दृष्ट्वा दमनकोत्सवम्
एवं दमनको देवि पूजितो यैः सुवैष्णवैः । सर्वं तीर्थं कृतं तैस्तु मंजर्या पूजनं कृतम्
वेदाध्ययनं कृतं तेन शास्त्राध्ययनमेव च । अग्निहोत्रं कृतं तेन मंजर्या पूजितो हरिः
तत्कुलं तु महज्ज्ञेयं ब्राह्मं वा चाथ क्षात्रियम् । शौद्रं वैश्यं च यच्चान्यद्धन्यं धन्यतरं स्मृतम्
यस्मिन्कुलेऽवतीर्याथोत्सवो दमनकः कृतः । स च धन्यस्तु धन्यो वै येन विष्णुः प्रपूजितः
दमनकेन तु तथा संप्राप्ते मधुमाधवे । संपूज्य गोसहस्रस्य देवि संलभते फलम्
मल्लिकाकुसुमैर्देवं वसंते गरुडध्वजम् । योऽर्चयेत्परया भक्त्या मुक्तिभागी भवेत्तु सः
मरुकोदमनकश्चैव सद्यस्तुष्टिकरो हरेः । अतः पूजा प्रकर्त्तव्या वैष्णवैर्नरसत्तमैः
गोसहस्रं कृतं तेन कन्यादानं तथैव च । पृथ्वीदानं कृतं तेन विष्णोर्वै पूजने कृते
एकामेकां गृहीत्वा तु मंजरीं दमनस्य तु । यः पूजयति देवेशं संप्राप्ते मधुमाधवे
पुण्यसंख्यां न जाने वै तस्याहं नगनंदिनि । स वै चतुर्भुजो भूत्वा इह लोके परत्र च । धर्मानर्थांश्च कामांश्च प्रभुंक्ते वैष्णवं पदम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे दमनकमहोत्सवो नाम चतुरशीतितमोऽध्यायः
सूतउवाच- अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते । सूत उवाच- एकदा द्वारकामागादृषिः कृष्णदिदृक्षया । पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च
नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत् । इदमर्घ्यमिदं पाद्यमित्युवाचासनंददत्
नारदस्तानि पुष्पाणि कृष्णायोपाजहार च । कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत
विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः । सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत्
समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः । सत्यभामां मानयित्वा गरुडं मनसा स्मरन्
स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः । आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः
सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह । विरुध्य देवराजानं रोपयिष्ये तवांगणे
कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु । इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया
देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा । याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम्
नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो । तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः
वाहमारोपयामास वेगेन बलवत्तरः । तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान्
गरुडं ताडयामास कल्पवृक्षं त्यजेरिति । तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात्
एकं विसर्जयामास त्वरया प्रजगाम च । तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः
मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात् । आगत्य सत्यभामाया गृहे चैनमरोपयत् । तदैव नारदोऽभ्यागात्सत्यया मानितो बहु
सत्यभामोवाच- ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः । भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम