पुण्यं त्रिशिखरं चैव कांतं मंदरमेव च। उदारं पिंजरं चैव विंध्यमस्तं च पर्वतम्॥१.४०.
एत एव गणानां च सिद्धानां च महात्मनाम्। आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.
एतेषामंतरे द्वीपो जंबूद्वीप इति स्मृतः। जंबुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्। दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.
यान्येतानीहपद्मस्य केसराणि समंततः। असंख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव। ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.
यान्यधोभागपत्राणि ता निवासास्तु भागशः। दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.
तेषां मध्येंतरं यत्तु तद्रसातलसंज्ञितम्। महापातककर्माणो मज्जंते यत्र मानवाः॥१.४०.
चतुर्दिशासु संख्याताश्चत्वारः सलिलाकराः। एवं नारायणस्यार्थे मही पुष्कर संभवा॥१.४०.
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः। एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.
यज्ञियैर्वेददृष्टांतैर्यज्ञैर्यूपचितिः कृता। एवं भगवता तेन विश्वव्याप्यधराचिता॥१.४०.
पर्वतानां नदीनां च रचना चैव निर्मिता। विश्वस्य यश्चाप्रतिमप्रभावः प्रभाकरा भो वरुणोमितद्युतिः॥१.४०.
शनैः स्वयंभूर्व्यसृजत्सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे। विघ्नस्तपसि संभूतो मधुर्नाम महासुरः॥१.४०.
तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः। तौ रजस्तमसोर्भूतौ संभूतौ तामसौ गणौ ॥१.४०.
एकार्णवं जगत्सर्वं क्षोभयेतां महाबलौ। दिव्यरक्तांबरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ॥१.४०.
किरीटमकुटोदग्रौ केयूरवलयोज्ज्वलौ। महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥१.४०.
महागिरेः संहननौ जंगमाविव पर्वतौ। नवमेघप्रतीकाशावादित्यप्रतिमाननौ॥१.४०.
विपुलाभोगकेयूर कराभ्यामतिभीषणौ। पादसंचारविन्यासैर्विक्षिपंताविवार्णवम्॥१.४०.
कंपयंतौ हरिमिव शयानं मधुसूदनम्। तौ तत्र विचरंतौ तु पुष्करे विश्वतोमुखौ॥१.४०.
योगिनां श्रेष्ठमत्यंतं दीप्तं ददृशतुस्तदा। नारायणसमाज्ञातं सृजंतमखिलाः प्रजाः॥१.४०.
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्। ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ॥१.४०.
दुष्टौ युयुत्सू संक्रुद्धौ क्रोधव्याकुलितेक्षणौ। कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः॥१.४०.
आवामगणयन्मोहादास्से त्वं विगतस्पृहः। एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव॥१.४०.
आवाभ्यां परमेशाभ्यामशक्तः स्थातुमर्णवे। तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः॥१.४०.
कः स्रष्टा कश्च ते गोप्ता केन नाम्नाभिधीयते। ब्रह्मोवाच। ईश्वरः प्रोच्यते लोके विष्णुश्चानंतशक्तिधृत्॥१.४०.
तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतम्। मधुकैटभा ऊचतुः। नावयोः परमं लोके किंचिदस्ति महामुने॥१.४०.
आवाभ्यां च्छाद्यते विश्वं तमसा रजसा च वै। रजस्तमोमयावावामृषीणामतिलंघिनौ॥१.४०.
धर्म शीलं च्छादयन्तौ नाशकौ सर्वदेहिनाम्। आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे॥१.४०.
आवामर्थश्च कामश्च यज्ञस्सर्वपरिग्रहः। सुखं यत्र मदो यत्र यत्र श्रीः कीर्तिरेव च॥१.४०.
येषां यत्कांक्षितं किंचित्तत्तदावां विचिंतय। ब्रह्मोवाच। आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ॥१.४०.