महतां चैव भूतानां विश्वो विश्वमचिंतयत्। तस्य चिंतयमानस्य नियते संस्थितेर्णवे
निराकाशे तोयमये सूक्ष्मे जगति संक्षये। ईशः संक्षोभयामास सोर्णवं सलिलं गतः
अथांतरादपां सूक्ष्ममथ च्छिद्रमभूत्पुरा। शब्दं प्रति ततो भूतो मारुतश्छिद्रसंभवः
संलब्ध्वांतरसंक्षोभं व्यवर्धत समीरणः। नभस्वता बलवता वेगाद्विक्षोभितोर्णवः
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नंभसि मथ्यतः। कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान्
ततः संशोषयामास पावकः सलिलं बहु। समस्तजलधिश्छिद्रमभवद्विसृतं नभः
आत्मतेजोभवाः पुण्या आपोमृतरसोपमाः। आकाशं छिद्रसंभूतं वायुराकाशसंभवः
अथ संघर्षसम्भूतं पावकं चास्य संभवम्। दृष्ट्वा पितामहो देवो महाभूतविभावनः
दृष्ट्वा भूतानि भगवान्लोकसृष्ट्यर्थमुत्तमम्। ब्रह्मणो जन्मसहितं बहुरूपो ह्यचिंतयत्
चतुर्युगानां संख्यातं सहस्रं युगपर्यये। यत्पृथिव्यां द्विजेंद्राणां तपसा भावितात्मनाम्
बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यते। ज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां याति योग्यताम्1.39.
तं योगवंतं विज्ञाय संपूर्णैश्वर्यमुत्तमम्। पदे ब्रह्मणि विश्वस्य न्ययोजयत योगवित्
ततस्तस्मिन्महातोये महेशो हरिरच्युतः। जलक्रीडां च विधिवत्स चक्रे सर्वलोककृत्
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः। सहस्त्रवर्णं विरजं भास्कराभं हिरण्मयम्
हुताशनज्वलितशिखोज्जवलप्रभं समुत्थितं शरदमलार्कतेजसम्। विराजते कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम्
पुलस्त्य उवाच। अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसम्। स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्१.४०.
तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते। सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते१.४०.
तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमम्। नारायणसमुद्भूतं प्रवदंति महर्षयः१.४०.
यत्पद्मं सा रसादेवी पृथिवी परिकथ्यते। ये पद्मकेसरा मुख्यास्तान्दिव्यान्पर्वतान्विदुः॥१.४०.
हिमवंतं च नीलं च मेरुं निषधमेव च। कैलासं शृंगवंतं च तथाद्रिं गंधमादनम्॥१.४०.
पुण्यं त्रिशिखरं चैव कांतं मंदरमेव च। उदारं पिंजरं चैव विंध्यमस्तं च पर्वतम्॥१.४०.
एत एव गणानां च सिद्धानां च महात्मनाम्। आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.
एतेषामंतरे द्वीपो जंबूद्वीप इति स्मृतः। जंबुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्। दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.
यान्येतानीहपद्मस्य केसराणि समंततः। असंख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव। ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.
यान्यधोभागपत्राणि ता निवासास्तु भागशः। दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.
तेषां मध्येंतरं यत्तु तद्रसातलसंज्ञितम्। महापातककर्माणो मज्जंते यत्र मानवाः॥१.४०.
चतुर्दिशासु संख्याताश्चत्वारः सलिलाकराः। एवं नारायणस्यार्थे मही पुष्कर संभवा॥१.४०.
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः। एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.