न ह्येष च सदाचारो देवेष्वपि ममोचितः। मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते
कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितः। मार्कंडेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि
एवं प्रक्षुभितः क्रोधान्मार्कंडेयो महामुनिः। तदैनं भगवान्भूयो बभाषे मधुसूदनः
श्रीभगवानुवाच। अहं ते जनको वत्स हृषीकेशः पिता गुरुः। आयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि
मां पुत्रकामः प्रथमं त्वत्पितांगिरसो मुनिः। पूर्वमाराधयामास तपस्तीव्रं समाश्रितः
तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्। दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम्
कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्। द्रष्टुमेकार्णवगतं क्रीडंतं योगमायया
ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनः। मूर्ध्नि बद्धांजलिपुटो मार्कंडेयो माहातपाः
नामगोत्रे तु संप्रोच्य दीर्घायुर्लोकपूजितः। तस्मै भगवते भक्त्या नमस्कारमथाकरोत्
मार्कंडेय उवाच। इच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघ। यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्
किं संज्ञश्चैव भगवान्लोके विज्ञायसे प्रभो। तर्कयेहं महात्मानं को ह्यन्यः स्थातुमर्हसि
श्रीभगवानुवाच। अहं नारायणो ब्रह्मन्सर्वभूतविनाशनः। अहं सहस्रशीर्षास्यः सहस्रपदसंयुतः
आदित्यवर्णः पुरुषो मुखे ब्रह्ममयो ह्यहम्। अहमग्निर्हव्यवहः सप्तसप्तिभिरन्वितः
अहमिंद्रपदः शक्र ॠतूनां परिवत्सरः। अहं योगिषु सांख्याख्यो युगांतावर्त एव च
अहं सर्वाणि सत्वानि दैवतान्यखिलानि च। भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम्
कृतांतः सर्वभूतानां विज्ञेयः कालसंज्ञितः। अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्
अहं दया परोधर्मः क्षीरोदोहं महार्णवः। यत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः
अहं सांख्यमहं योगो ह्यहं तत्परमं पदम्। अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः
अहं ज्योतिरहं वायुरहं भूमिरहं जलम्। आकाशोहं समुद्राश्च नक्षत्राणि दिशो दश
अहं वर्षमहं सोमः पर्जन्योहमहं रविः। अहं पुराणं परमं तथैवाहं परायणम्
भविष्ये चापि सर्वत्र भविष्यत्सर्वसंग्रहः। यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन
यच्चानुभवसे लोके तत्सर्वं मामनुस्मर। विश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य माम्
युगे युगे च रक्षामि मार्कंडेयाखिलं जगत्। तदेतत्कथितं सर्वं मार्कंडेयावधारय
शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मम। मम ब्रह्मा शरीरस्थो देवाश्च ॠषिभिः सह
व्यक्तमव्यक्तयोगं मामवगच्छ मुरद्विषम्। अहमेकाक्षरो मंत्रस्त्र्यक्षरश्च पितामहः
परस्त्रिवर्गओंकारः परमात्मप्रदर्शनः। एवमादिपुराणं च वदतेमां महामते
वक्त्रं यातो भगवतो मार्कंडेयो महामुनिः। ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः
तस्यासम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययम्। यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगतचंद्रभास्करे
शनैश्चरन्प्रभुरथ हंससंज्ञितः सृजन्जगद्विहरति कालपर्यये। अथ चैवं शुचिर्भूत्वा वरयामास वै तपः
छादयित्वात्मनो देहं पयसांबुजसंभवः। ततो महात्मातिबलो मर्त्यलोकविसर्जने