सर्वतस्तमसाछन्नं मार्कंडेयोन्ववैक्षत। तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम्
देवदर्शनसंहृष्टो विस्मयं परमं गतः। सोऽचिंतयदमोघात्मा मार्कंडेयोथ शंकितः
किं नु स्याच्चित्तसंमोहः किं नु स्वप्नोनुभूयते। व्यक्तमन्यतरो भाव एतयोर्भविता मम
न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति। नष्टचंद्रार्कपवनो नष्टपर्वतभूतलः
कतमः स्यादयं लोक इति शोकमुपागतः। ददर्श चापि पुरुषं स्वपंतं पर्वतोपमम्
सलिलेऽधमथो मग्नं जीमूतमिव सागरे। तपंतमिव तेजोभिरामुक्तशशिभास्करम्
गांभीर्यात्सागरमिव भासमानम्मवौजसा। देवं द्रष्टुमिहायातः को भवानिति विस्मयात्
तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः। संप्रविष्टः पुनः कुक्षिं मार्कंडेयः सविस्मयम्
तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्। स तथैव यथापूर्वं पृथिवीमटते वनम्
पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च। क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः
अपश्यद्देवकुक्षिस्थान्यज्ञस्थान्शतशो द्विजान्। सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः1.39.
चत्वार आश्रमाः सम्यग्यथापूर्वं विलोकिता। एवं वर्षशतं साग्रं मार्कंडेयेन धीमता
चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यते। ततः कदाचिदथ वै पुनः कुक्षेर्विनिर्गतः
सुप्तं न्यग्रोधशाखाय ांबालमेकं निरीक्ष्य च। तथैवैकार्णवजले नीहारेणावृतांतरे
अव्यक्तक्रीडिते लोके सर्वभूतविवर्जिते। स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः
बालमादित्यसंकाशं न शक्नोत्यभिवीक्षितुम्। सोप्यचिंतयदेकांते स्थित्वा सलिलसन्निधौ
पूर्वदृष्टमिदं मेने शंकितो देवमायया। अगाधे सलिले शेते मार्कंडेयः सविस्मयः
पूर्ववत्तमथो द्रष्टुमव्रजत्त्रस्तलोचनः। स तस्मै भगवानाह स्वागतो बाल भो इति
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः। मार्कंडेय न भेतव्यमागच्छस्व ममांतिकम्
मार्कंडेय उवाच। को नाम्ना कीर्तयति मां कुर्वन्परिभवं मम। दिव्यवर्षसहस्राख्यं धर्षयंश्चैव मे वयः
न ह्येष च सदाचारो देवेष्वपि ममोचितः। मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते
कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितः। मार्कंडेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि
एवं प्रक्षुभितः क्रोधान्मार्कंडेयो महामुनिः। तदैनं भगवान्भूयो बभाषे मधुसूदनः
श्रीभगवानुवाच। अहं ते जनको वत्स हृषीकेशः पिता गुरुः। आयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि
मां पुत्रकामः प्रथमं त्वत्पितांगिरसो मुनिः। पूर्वमाराधयामास तपस्तीव्रं समाश्रितः
तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्। दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम्
कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्। द्रष्टुमेकार्णवगतं क्रीडंतं योगमायया
ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनः। मूर्ध्नि बद्धांजलिपुटो मार्कंडेयो माहातपाः
नामगोत्रे तु संप्रोच्य दीर्घायुर्लोकपूजितः। तस्मै भगवते भक्त्या नमस्कारमथाकरोत्
मार्कंडेय उवाच। इच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघ। यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्