अत्रांतरे दुराचारः कोपि पापाकृतिर्वने । जालं प्रसारयामास तद्यदा जीवपूरितम्
ततः संकोचयामास तज्जालं पापनायकः । जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह
स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् । देवि मामत्तुमायाति करे गृह्णातु मां सखी
वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् । वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया
दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने । विद्रवंती समं सख्या तापसाश्रममागता
सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् । पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान्
सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् । क्षीरं वहंति सरितः स्रवंति मधु भूरुहः
शर्कराराशयस्तत्र मोदकानां च संचयाः । भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च
बहुशस्त्राणि दिव्यानि नभसः संपतंति च । क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च
मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् । व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम्
तमुवाच विभो पाहि पाहि पापर्द्धिकादथ । तपसा किं च धर्मेण मौनेन च जपेन च
भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन । एवमुक्तवती भीता सालसांगी तपस्विनम्
तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः । वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत्
सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता । तवालिंगनभावेन पुनरेव भविष्यति
शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः । अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम्
सा चित्रशालामित्युक्ता विवेश मुनिना तदा । दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः
चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा । यावत्तावदभूद्राजन्रूपं जालंधराकृति
तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः । तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः
अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा । तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे
वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः । शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह
प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः । तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना
छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः । प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता
क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः । इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा
तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः । अथ वृंदारिका देवी सर्वभोगसमन्विता
प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा । मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम्
मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् । वृंदां वियोगजं दुःखं विनोदयति माधवे
तत्क्रीडाचारुविलसद्वापिका राजहंसके । तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः
अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी । वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी
वृंदांग संगजं चेदमनुभूय सुंखं हरिः । दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः
एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् । वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम्