न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति। कश्चैष पुरुषो नाम किं योगः कश्च योगवान्
न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतः। कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः
नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्। पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः
एवमेकार्णवीभूते शेते लोके महाद्युतिः। प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते
महतो रजसो मध्ये महार्णवसमस्य वै। वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः
आत्मरूपसरूपेण तमसा संवृतः प्रभुः। मनः सात्विकमादाय यत्र तत्सत्वमाहितं
यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततः। रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम्
पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्। यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः
ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताः। अस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा
ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं। होतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः
ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशः। मेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च
उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव। पाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम्
अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्। एवमेवं स भगवान्षोडशैतान्जगत्पतिः
स्वयंभूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्। तदा चैष महायोगी पुरुषो यज्ञसंज्ञितः
वेदाश्चैव तथा सर्वे सहांगोपनिषत्क्रियाः। स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा
श्रूयतां तु तदा विप्रो मार्कंडेयः कुतूहलात्। गीर्णो भगवता तेन कुक्षावासीन्महामुनिः
बहुवर्षसहस्रायुस्तस्यैव वरतेजसः। अटंस्तीर्थप्रसंगेन पृथिवीतीर्थगोचरः
आश्रमाणि च पुण्यानि देवतायतनानि च। देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च
जपहोमपराः शांतास्तपोभिरमलाः स्मृताः। मार्कंडेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः
निष्क्रामन्तं न चात्मानं जानीते देवमायया। निष्क्रम्य तस्य उदरादेकार्णवमथो जगत्
सर्वतस्तमसाछन्नं मार्कंडेयोन्ववैक्षत। तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम्
देवदर्शनसंहृष्टो विस्मयं परमं गतः। सोऽचिंतयदमोघात्मा मार्कंडेयोथ शंकितः
किं नु स्याच्चित्तसंमोहः किं नु स्वप्नोनुभूयते। व्यक्तमन्यतरो भाव एतयोर्भविता मम
न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति। नष्टचंद्रार्कपवनो नष्टपर्वतभूतलः
कतमः स्यादयं लोक इति शोकमुपागतः। ददर्श चापि पुरुषं स्वपंतं पर्वतोपमम्
सलिलेऽधमथो मग्नं जीमूतमिव सागरे। तपंतमिव तेजोभिरामुक्तशशिभास्करम्
गांभीर्यात्सागरमिव भासमानम्मवौजसा। देवं द्रष्टुमिहायातः को भवानिति विस्मयात्
तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः। संप्रविष्टः पुनः कुक्षिं मार्कंडेयः सविस्मयम्
तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्। स तथैव यथापूर्वं पृथिवीमटते वनम्
पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च। क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः