नास्तिका ब्राह्मणा भक्ता ज्ञायंते तत्र मानवाः। अहंकारगृहीताश्च प्रक्षीणस्नेहबंधनाः
विप्राः शूद्रसमाचारास्संति सर्वे कलौ युगे। आश्रमाणां विपर्यासः कलौ संप्रति वर्तते
वर्णानां चैव संदेहो युगांते कुरुनंदन। एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता
सहस्रयुगपर्यंतं तदहर्ब्राह्ममुच्यते। ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम्
शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्। देवतानां च सर्वेषां ब्राह्मणानां महीपते
दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्। गंधर्वाणामप्सरसां भुजंगानां च पार्थिव
पर्वतानां नदीनां च पशूनां चैव सत्तम। तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा
सर्वभूतपतिः पंच भूत्वा भूतानि भूतकृत्। जगत्संहरणार्थाय कुरुते वैशसं महत्
भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्। भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत्
भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः। गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्
ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः। पर्वतानां च सलिलं सर्वमादाय योगवित्1.39.
भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले। रमते जलमादाय पिबन्रसमनुत्तमं
मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं। तत्सर्वमरविंदाक्ष आदत्ते पुरुषोत्तमः
वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्। प्राणापानं समासाद्य वायुना क्रमते हरिः
ततो देवगणानां च सर्वेषां चैव देहिनाम्। पंचेंद्रियगुणास्सर्वे भूतान्येव च यानि च
घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः। लोकयात्रा भगवता मुहूर्तेन विनाशिता
जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः। रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः
स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः। शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः
मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः। परेण परमेष्ठी च हृषीकेशमुपाश्रिताः
ततो भगवतस्तस्य रश्मिभिः परिवारिताः। वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः
तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्। प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः
सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि च। विमानानि च दिव्यानि पुराणि विविधानि च
यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्। भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः
स भूतिं धारयामास युगांते लोकसंभवाम्। सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः
दिव्यतोयेन हविषा तर्पयामास मेदिनीं। ततः क्षीरनिकाशेन स्वादुना परमांभसा
शिशिरेण च पुण्येन महीनिर्वाणमागमत्। तेन तोयेन संपृक्ता पयस्साधर्म्यतो धरा
एकार्णावजलीभूता सर्वसत्वविवर्जिता। महासत्वान्यपि विभुं प्रविष्टान्यमितौजसं
नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते। संशोषमात्मना कृत्वा समुद्राणां च देहिनः
दग्ध्वा संकोच्य च तथा स्वपित्येकः सनातनः। पौराणं रूपमास्थाय स्वपित्यमितविक्रमः
एकार्णवजलेयायी योगी योगमुपासितः। अनेकानि सहस्राणि युगान्येकार्णवांभसि